शांतिपर्व

अध्यायः ८७

Santi Parva (Sanskrit) · Adhyaya 87
अक्षर का आकार

युधिष्ठिर उवाच।

राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव तु संग्रहम्।
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ।।

भीष्म उवाच।

राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु संग्रहम्।
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु।।

ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा।
विंशतित्रिंशतीशं च सहस्रस्य च कारयेत्।।

ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावेयेत्।
तानाचक्षीत दशिने दशिको विंशिने पुनः।।

विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने।
ग्रामाणां शतपालाय सर्वमेव निवेदयेत्।।

यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्निया।
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः।।

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कुरः।
महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्।
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत।।

शाखानगरमर्हस्तु सहस्रपतिरुत्तमः।
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसंगतः।।

तेषां संग्रामकृत्यं स्याद्वामकृत्यं च तेषु यत्।
धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः।।

नगरेनगरे वा स्यादेकः सर्वार्थचिन्तकः।
उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः।।

भवेत्स तान्परिक्रामेत्सर्वानेव सभासदः।
तेषां वृत्तिं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः।।

जिघांसवः पापकामाः परस्वादायिनः शठाः।
रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः।।

विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्।
योगक्षेमं च संप्रेक्ष्य वणिजां कारयेत्करान्।।

उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्।
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्।।

उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर।
यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः।।

फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्।
फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तते।।

यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ।
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः।।

नोच्छिद्याहात्मनो मूलं परेषां चापि तृष्णया।
ईहाद्वाराणि संरुध्य राजा संवृतदर्शनः।।

प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्।
प्रद्विष्टस्य कुतः श्रेयो संवृतो लभते श्रियम्।।

वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना।
भृतो वत्सो जातबलः षीडां सहति भारत।।

न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर।
राष्ट्रमप्यातिदुग्धं हि न कर्म कुरुते महत्।।

यो राष्ट्रमनुगृह्णाति परिरक्षन्स्वयं नृपः।
संजातमुपजीवन्स लभते सुमहत्फलम्।।

आपदर्थं च निचयात्राजानो हि चिचिन्वते।
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा।।

पौरजानपदान्सर्वान्संश्रितोषाश्रितांस्तथा।
यथाशक्त्यनुकम्पेत सर्वान्स्वल्पधनानपि।।

बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्।
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुः खिताः।।

प्रामेव तु धनादानमनुभाष्य ततः पुनः।
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्।।

इयमापत्समुत्पन्ना परचक्रभयं महत्।
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः।।

अरयो मे समुत्थाय बहुभिर्दस्युभिः सह।
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्।

अस्यामापदि घोरायां संप्राप्ते दारुणे भये।
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः।।

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये।
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः।।

कलत्रमादितः कृत्वा सर्वं वो विनशेदिति।
शरीरपुत्रदारार्थमर्थसंचय इष्यते।।

नन्दामि वः प्रभावेण पुत्राणामिव चोदये।
यखाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः।।

आपत्स्वेव निवोढव्यं भवद्भिः संगतैरिह।
न वः प्रियतरं कार्यं धनं कस्यांचिदापदि।।

इति वाचा मधुरया श्लक्ष्णया सोपचारया।
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित्।।

प्रचारं भृत्यभरणं व्ययं संग्रामतो भयम्।
योगक्षेणं च संप्रेक्ष्य गोमिनः कारयेत्करम्।।

उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः।
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत्।।

सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः।
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च।।

अजस्रमुपयोक्तव्यं फलं गोमिषु भारत।
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा।।

तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः।
दयावानप्रमत्तश्च करान्संप्रणयन्मृदून्।।

सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु।
न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्ताशीतितमोऽध्यायः।। 87।।