शांतिपर्व
अध्यायः ८६
युधिष्ठिर उवाच।
कथंविधं पुरं राजा स्वयमावस्तुमर्हति।
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
वस्तव्यं यत्र कौन्तेय सपुत्रज्ञातिबन्धुना।
न्याय्यं च परिप्रष्टुं वृत्तिं गुप्तिं च भारत।।
तस्मात्ते र्तयिष्यामि दुर्गकर्म विशेषतः।
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः।।
षङ्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्।
सर्वसंपत्प्रधानं च बाहुल्यं चापि संभवेत्।।
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च।
मनुष्यदुर्गं मृद्दुर्गं वनदुर्गं च तानि षट्।।
यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्।
दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्।।
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः।
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः।।
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्।
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्।।
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्।
शूराढ्यं प्राज्ञसंपूर्णं ब्रह्मघोषानुनादितम्।।
समाजोत्सवसंपन्नं सदापूजितदैवतम्।
वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्।।
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्।
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत्।।
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्।
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटंकटान्।।
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्।
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च।।
शणं सर्जरसं धान्यमायुधानि शरांस्तथा।
चर्म स्नायुं तथा वेत्रं मुञ्जवल्वजदंध्वनान्।।
आशयाश्चोदपानाश्च प्रभूतसलिलाकराः।
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः।।
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः।
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः।।
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः।
कुलीनाः सत्वसंपन्ना युक्ताः सर्वेषु कर्मसु।।
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मेकान्।
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु।।
बाह्यमाभ्यन्तरं चैव पौरजानपदं तथा।
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्।।
चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः।
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्।।
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्।
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा।।
ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः।
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता।।
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया।
प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम्।।
कृपणानाथवृद्धानां विधवानां च योषिताम्।
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्।।
आश्रमेषु यथाकालं चैलभाजनभोजनम्।
सदैवोपहरेद्राजा सत्कृयाभ्यर्च्य मान्य च।।
आत्मानं सर्वकार्याणि तापसे राष्ट्रमेव च।
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा।।
` ते कस्यांचिदवस्थायां शरणं शरणार्थिने।
राज्ञे दद्युर्यथाकामं तापसाः शंसितव्रताः।।'
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्।
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः।।
तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि।
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः।।
तस्मिन्निधीनादधीत पुनः प्रत्याददीत च।
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्।।
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः।
अटवीषु परः कार्यः सामन्तनगरेष्वपि।।
तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत्।
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा।।
ते कस्यांचिदवस्थायां शरणं शरणार्थिने।
राज्ञे दद्युर्थथाकामं तापसाः संशितव्रताः।।
एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः।
यादृशे नगरे राजा स्वयमावस्तुमर्हति।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षडशीतिममोऽध्यायः।। 86।।