शांतिपर्व

अध्यायः ८५

Santi Parva (Sanskrit) · Adhyaya 85
अक्षर का आकार

युधिष्ठिर उवाच।

कथंस्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः।
प्रैति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम्।।

भीष्म उवाच।

व्यवहारेण शुद्धेन प्रजापालनतत्परः।
प्राप्य धर्मं च कीर्ति च लोकानाप्नोत्यसौ शुचिः।।

युधिष्ठिर उवाच।

कीदृशव्यवहारं तु कैश्च व्यवहरेन्नृपः।
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि।।

ये चैव पूर्वकथिता गुणास्ते पुरुषं प्रति।
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः।।

भीष्म उवाच।

एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन्।
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः।।

किंतु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम्।
वक्ष्यामि तु यथाऽमात्यान्यादृशांश्च करिष्यसि।।

चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन्।
क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः।।

वैश्यान्वित्तेन संपन्नानेकविंशतिसङ्ख्यया।
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके।।

अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा।
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्।।

श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्।
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्।।

वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम्।
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्।।

ततः संप्रेषयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत्।
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा।।

न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम्।
कार्ये खलु विपन्ने त्वां यो धर्मस्तं च पीडयेत्।।

विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव।
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे।।

प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः।
हार्दं भयं संभवति स्वर्गश्चस्य विरुध्यते।।

अथ यो धर्मतः पाति राजाऽमात्योऽथवाऽऽत्मजः।
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ।।

`स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह।'
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः।
आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः।।

बलात्कृतानां वलिभिः कृपणं बहुजल्पताम्।
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्।।

ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्।
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः।।

अपराधानुरूपं च दण्डं पापेषु धारयेत्।
वियोजयेद्धनैर्ऋद्धानधनानथ बन्धनैः।।

विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः।
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्।।

राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्।
आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च।।

सम्यक्प्रणयतो दण्डं भूमिपस्य विशांपते।
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः।।

कामकारेण दण्डं तु यः कुर्यादविचक्षणः।
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति।।

न परस्य प्रवादेन परेषां दण्डमर्पयेत्।
आगमानुगमं कृत्वा बध्नीयान्मोक्षयीत वा।।

न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि।
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह।।

यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः।।

कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः।
यथोक्तवादीस्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः।।

एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता।
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः।।

धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्।
मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता।।

कुलीनः सत्वसंपन्नः शुक्लोऽमात्यः प्रशस्यते।
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्।।

व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः।
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्।।

विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित्।
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते।।

एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ।
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चाशीतितमोऽध्यायः।। 85।।