शांतिपर्व

अध्यायः ८४

Santi Parva (Sanskrit) · Adhyaya 84
अक्षर का आकार

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर।।

शक्र उवाच।

किंस्विदेकपढं ब्रह्मन्पुरुषः सम्यगाचरन्।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्।।

बृहस्पति उवाच।

सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्।।

एतदेकपदं शक्र सर्वलोकसुखावहम्।
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा।।

यो हि नाभाषते किंचित्सर्वदा भुकुटीमुखः।
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्।।

यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते।
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति।।

दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्।
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्।।

आददन्नपि भूतानां मधुरामीरयन्गिरम्।
सर्वलोकमिमं शक्र सान्त्वेव कुरुते वशे।।

तस्मात्सान्त्वं प्रयोक्तव्यं दण्डमाधित्सताऽपि हि।
प्रीतिं च जनयत्येवं न चास्योद्विजते जनः।।

सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते।।

भीष्म उवाच।

इत्युक्तः कृतवान्सर्वं यथा शक्रः पुरोधसा।
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुरशीतितमोऽध्यायः।। 84।।