शांतिपर्व
अध्यायः ७८
युधिष्ठिर उवाच।
व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत।
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा।।
भीष्म उवाच।
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्।
कृषिं गोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये।।
युधिष्ठिर उवाच।
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते।
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ।।
भीष्म उवाच।
सुरालवणमित्येतत्तिलान्केसरिणः पशून्।
वृषभान्मधु मांसं च कृतान्नं च युधिष्ठिर।।
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्।
एतेषां विक्रयात्तात ब्राह्मणो नरके पतेत्।।
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्।
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन।।
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः।
निमयेत्पक्वमामेन भोजनार्थाय भारत।।
वयं सिद्धमशिष्यामो भवान्साधयतामिदम्।
एवं संवीक्ष्य समयं नाधर्मोऽस्ति कथंचन।।
अत्र ते वर्तयिष्यामि यथा कर्मः सनातनः।
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर।।
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु।
उचितो वर्तते धर्मो न बलात्संप्रवर्तते।।
इत्येवं संप्रवर्तन्ते व्यवहाराः पुरातनः।
ऋषीणामितरेषां च साधु चैतदसंशयम्।।
युधिष्ठिर उवाच।
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः।
व्युत्क्रमन्ते स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्।।
तदा त्राता तु को नु स्यात्को धर्मः किं परायणम्।
एतं मे संशयं ब्रूहि विस्तरेण पितामह।।
भीष्म उवाच।
दानेन तपसा यज्ञैदद्रोहेण दमेन च।
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः।।
तेषां ये वेदबलिनस्त उत्थाय समन्ततः।
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः।।
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्।
तस्माद्ब्राह्मबलेनैव समुत्थेयं विजानता।।
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसन्दधेत्।
तदा वर्णा यथाधर्मं निविशेयुः स्वकर्मसु।।
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते।
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर।।
युधिष्ठिर उवाच।
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणं प्रति।
कस्तत्र ब्राह्मणांस्त्राता को धर्मः किं परायणम्।।
भीष्म उवाच।
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च।
अमायया मायया च नियन्तव्यं तदा भवेत्।।
क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः।
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्।।
अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वस्वयोनिषु शाम्यति।।
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिहन्ति च।
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः।।
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर।
समुदीर्णान्यजेयानि तेजांसि च बलानि च।।
युधिष्ठिर उवाच।
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले।
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति भारत।।
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः।
`ब्राह्मणान्परिरक्षन्ति तेषां लोका भवन्ति के।।
भीष्म उवाच।
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च।
मनस्विनो मन्युमन्तः पुण्याँल्लोकान्व्रजन्त्यमी।
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणभिष्यते।।
अतिस्विष्टमधीतानां लोकानतितपस्विनाम्।
अनाशकाग्न्याहितानां शूरा यान्ति परां गतिम्।।
ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन्न दुष्यति।
एष एवात्मनस्त्यागो नान्यं धर्मं विदुर्जना।।
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति।
ब्रह्मद्विपो जिघांसन्तस्तेषां नोऽस्तु सलोकता।।
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरव्रवीत्।
यथाऽश्वमेधावभृथे स्नाताः पूता भवन्त्युत।
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे।।
भवत्यधर्मो धर्मो हि धर्मोऽधर्मो भवत्युत।
कारणाद्देशकालस्य देशः कालः स तादृशः।।
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्।
धर्म्याः पापानि कुर्वाणा गच्छन्ति परमां गतिम्।।
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति।
आत्मत्राणे दस्युदोषे सर्वस्वहरणे तथा।।
युधिष्ठिर उवाच।
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे।
संप्रमूढेषु वर्णेषु यदन्योऽभिभवेद्वली।।
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम।
दस्युभ्यो यः प्रजा रक्षेद्दण्डं धर्मेण धारयेत्।।
भीष्म उवाच।
कार्यं कुर्यान्न वा कुर्यात्स वार्यो वा भवेन्न वा।
न स्म शस्त्रं गृहीतव्यमन्यत्र क्षत्रबन्धुतः।।
अपारे यो भवेत्पारमप्लवेः यः प्लवो भवेत्।
शूद्रो वा यदि वाऽप्यन्यः सर्वथा मानमर्हति।।
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम्।
अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः।।
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम्।
यहद्ध्यभीष्टं कौरव्य कर्ता सन्मानमर्हति।।
किमनडुहा यो न वहेत्किं धेन्वा वाऽप्यदुग्धया।
बन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाऽप्यरक्षता।।
यथा दारुमयो हस्ती यथा चर्ममयो मृगः।
यथा ह्यदक्षः पुरुषः पथि क्षेत्रं यथोपरम्।।
यथा विप्रोऽनधीयानो राजा यश्च न रक्षिता।
मेघो न वर्षते यश्च सर्व एव निरर्थकाः।।
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्।
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टसप्ततितमोऽध्यायः।। 78।।