शांतिपर्व

अध्यायः ७७

Santi Parva (Sanskrit) · Adhyaya 77
अक्षर का आकार

युधिष्ठिर उवाच।

केषां प्रभवते राजा वित्तस्य भरतर्षभ।
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्।
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत।।

विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन।
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः।।

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः।
राज्ञ एवापराधं तं मन्यन्ते किल्विषं नृप।।

अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा।
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन्।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं केकयराजेन हियमाणेन रक्षसा।।

केकयानामधिपतिं रक्षो जग्राह दारुणम्।
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्।।

राजोवाच।

न मे स्तेनो जनपदे न कदर्यो न मद्यपः।
नानाहिताग्निर्नायज्वा मा ममान्तरमाविशः।।

न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः।
द्विजातिर्विषये मह्यं मा ममान्तरमाविशः।।

नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम।
नाधीते चाव्रती कश्चिन्मा ममान्तरमाविशः।।

अध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति च।
ददति प्रतिगृह्णन्ति षट्‌सु कर्मस्ववस्थिताः।।

पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः।
ब्राह्मणा मे स्वकर्मस्था मा ममान्तरमाविशः।।

न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः।
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न।।

ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः।
क्षत्रिया मे स्वकर्मस्था मा ममान्तरमाविशः।।

कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया।
अप्रमत्ताः क्रियावन्तः सुवृत्ताः सत्यवादिनः।।

संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः।
मम वैश्याः स्वकर्मस्था मा ममान्तरमाविशः।।

त्रीन्वर्णानुपतिष्ठन्ते यथावदनसूयकाः।
मम शूद्राः स्वकर्मस्था मा ममान्तरमाविशः।।

कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्।
संविभक्ताऽस्मि सर्वेषां मा ममान्तरमाविशः।।

कुलानुरूपधर्माणां प्रस्थितानां यथाविधि।
अव्युच्छेत्ताऽस्मि सर्वेषां मा ममान्तरमाविशः।।

तपस्विनो मे विषये पूजिताः परिपालिताः।
संविभक्ताश्च सत्कृत्य मा ममान्तरमाविशः।।

नासंविभज्य भोक्ताऽस्मि न विशामि परस्त्रियम्।
स्वतन्त्रो जातु न क्रीडे मा ममान्तरमाविशः।।

नाब्रह्मचारी भिक्षावान्भिक्षुर्वा ब्रह्मचर्यवान्।
अनृत्विजा हुतं नास्ति मा ममान्तरमाविशः।।

`कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत्।
नाहं व्युत्क्रामितः सत्यान्मा ममान्तरमाविशः।। '

नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः।
राष्ट्रे स्वपति जागर्मि मा ममान्तरमाविशः।।

`शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम।
धर्मचारी गृहस्थश्च मा ममान्तरमाविशः।।'

वेदाध्ययनसंपन्नस्तपस्वी सत्यधर्मवित्।
स्वामी सर्वस्य राष्ट्रस्य धीमान्मम पुरोहितः।।

दानेन दिव्यानभिवाञ्छामि लोकान्
सत्येनाथ ब्राह्मणानां च गुप्त्या।
शुश्रूषया चापि गुरूनुपैमि
न मे भयं विद्यते राक्षसेभ्यः।।

न मे राष्ट्रे विधवा ब्रह्मबन्धु
र्न ब्राह्मणः कितवो नोत चोरः।
नायाज्ययाजी न च पापकर्मा
न मे भयं विद्यते राक्षसेभ्यः।।

न मे शस्त्रैरनिर्भिन्नं गात्रे व्द्यङ्गुलमन्तरम्।
धर्मार्थं युध्यमानस्य मा ममान्तरमाविशः।।

गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम।
आशासते जना राष्ट्रे मा ममान्तरमाविशः।।

राक्षस उवाच।

`नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम्।
विप्राणां कर्मदोषाच्च प्रजानां जायते भयम्।।

अवृष्टिर्मारको दोषः सततं क्षुद्भयानि च।
विग्रहश्च सदा तस्मिन्देशे भवति दारुणः।।

यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथंचन।
भयमुत्पद्यते तत्र यत्र विप्राः सुसंयताः।।

गन्धर्वाप्सरसः सिद्धाः पन्नगाश्च सरीसृपाः।
मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः।।

ब्राह्मणः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः।
नाऽनावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः।।

धार्मिको यत्र भूपालो न तत्रास्ति पराभवः।
उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः।।

यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे।
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम्।।

येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय।
न रक्षोऽभ्यो भयं तेषां कुत एव तु पातकम्।।

येषां पुरोगमा विप्रा येषां ब्रह्म परं बलम्।
सुरक्षितास्तथा विप्रास्ते वै स्वर्गजितो नृपाः।।

भीष्म उवाच।

तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः।
आशीरेषां भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम्।।

तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः।
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात्।।

एवं यो वर्तते राजा पौरजानपदेष्विह।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तसप्ततितमोऽध्यायः।। 77।।