शांतिपर्व

अध्यायः ७९

Santi Parva (Sanskrit) · Adhyaya 79
अक्षर का आकार

युधिष्ठिर उवाच।

क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर।।

भीष्म उवाच।

प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेवच।।

ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः।
परस्परस्य सुहृदः समन्तात्समदर्शिनः।।

आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम्।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः।।

`यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते।'
धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः।।

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः।।

युधिष्ठिर उवाच।

यदिदं वेदवचनं दक्षिणासु विधीयते।
इदं देयमिदं देयं न क्वचिव्द्यवतिष्ठते।।

देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः।
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते।।

श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति।।

भीष्म उवाच।

न वेदानां परिभवान्न शाठ्येन न मायया।
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी।।

यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम्।
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन।।

शक्तिस्तु पूर्णपात्रेण संमिता नावमा भवेत्।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्थथाबलम्।।

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः।
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते।।

तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते।
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः।।

पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत्।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः।।

शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः।
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्।।

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु।।

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्।।

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः।।

निबोध दशहोतॄणां विधानं पार्थ यादृशम्।
चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्।
`न शाठ्यं न च जिह्यत्वं कालो देशश्च ते दश।।'

सर्वं दिह्नं मृत्युपदमार्जवं ब्रह्मणः पदम्।
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनाशीतितमोऽध्यायः।। 79।।