शांतिपर्व

अध्यायः ७६

Santi Parva (Sanskrit) · Adhyaya 76
अक्षर का आकार

युधिष्ठिर उवाच।

स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि।
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह।।

भीष्म उवाच।

विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः।
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः।।

ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः।
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत।।

`गोऽजाविमहिषाणां च बडवानां च पोषकाः।
वृत्त्यर्थं प्रतिपद्यन्ते तान्वैश्यान्संप्रचक्षते।।

ऐश्वर्यकामा ये चापि सामिपा वाऽपि भारत।
निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः।।

अश्वारोहा गजारोहा रथिनोऽथ पदातयः।
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत।।

जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः।
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत।।

अश्रोत्रियाः सर्वे एते सर्वे चानाहिताग्नयः।
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत्।।

आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः।।

[ऋत्विक्पुरोहितो मन्त्री दूतो वार्तानुकर्षकः।
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत।।]

`म्लेच्छदेशाश्च ये केचित्पापैरध्युषिता नरैः।
गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च।।

व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः।
अकीर्तिमिह संप्राप्य नरकं प्रतिपद्यते।।

महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम्।
ब्राह्मणो ऋग्यजुः साम्नां मूढः कृत्वा तु विप्लवम्।।

कल्पमेकं कृमिस्थोऽथ नानाविष्ठासु जायते।
व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पत्तितेऽशुचौ।।

कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ।
अनधीतेषु सर्वत्र भुञ्जाने यत्र तत्र वा।।

वालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा।
मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथंचन।।

पुत्रघातिनि शत्रौ च न मन्त्राद्याजयेद्द्विजः।
स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः।।

यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽपि वा।
यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम्।।

सुसयतः शुचिर्भुत्वा मन्त्रानुच्चारयेद्द्विजः।
आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथवा।
हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः।।

क्रूरकर्मा विकर्मा वा कर्मभिर्वञ्चितोऽथवा।
तत्त्ववित्तरते पापं शीलवान्सयतेन्द्रियः।। '

एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः।
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च।।

अब्राह्मणानां वित्तस्य स्वामी राजेति नः श्रुतिः।
ब्राह्मणानां च येकेचिद्विकर्मस्था इति श्रुतिः।
`प्रागुक्तांश्चाप्यनुक्तांश्च सर्वास्तान्दापयेत्करान्'

विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन।
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया।।

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः।
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः।।

अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा।
राजन्स राज्ञा भर्तव्य इति वेदविदो विदुः।।

स चेन्नापि निवर्तेत कृतवृत्तिः परन्तप।
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः।।

`यज्ञः श्रुतमपैशुन्यमर्हिसाऽतिथिपूजनम्।
दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम्।।'

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षट्‌सप्ततितमोऽध्यायः।। 76।।