शांतिपर्व

अध्यायः ७५

Santi Parva (Sanskrit) · Adhyaya 75
अक्षर का आकार

युधिष्ठिर उवाच।

यया वृत्त्या महीपालो विवर्धयति मानवान्।
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

दानशीलो भवेद्राजा यज्ञशीलश्च भारत।
उपवासतपः शीलः प्रजानां पालने रतः।।

सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयन्।
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान्।।

राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते।
यद्यदाचरते राजा तत्प्रजानां स्म रोचते।।

नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु।
निहन्यात्सर्वतो दस्यून्न राज्ञो दस्युषु क्षमा।।

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः।
चतुर्थं तस्य धर्मस्य राजा भागं च विन्दति।।

यदधीते यद्ददाति यञ्जुहोति यदर्चति।
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन्।।

यद्राष्ट्रोऽकुशलं किंचिद्राज्ञो रक्षयतः प्रजाः।
चतुर्थं तस्य पापस्य राजा भारत विन्दति।।

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः।
कर्मणा पृथिवीपाल नृशंसोऽनृतवागपि।।

तादृशात्किल्बिपाद्राजा शृणु येन प्रमुच्यते।
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि।
तत्स्वकोशात्प्रदेयं स्यादशक्तेनोपजीवतः।।

सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा।
न स्थेयं विषये तेन योऽपकुर्याद्द्विजातिषु।।

ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम्।
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः।।

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः।
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्।।

न हि कामात्मना राज्ञा सततं शठबुद्धिना।
नृशंनेनातिलुब्धेन शक्यं पालयितुं प्रजाः।।

युधिष्ठिर उवाच।

नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्।
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते।।

तदल मम राज्येन यत्र धर्मो न विद्यते।
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया।।

तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः।
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः।।

भीष्म उवाच।

वेदाहं तव या बुद्धिरानृशंस्येऽगुणैव सा।
न च नित्यानृशंसेन शक्यं राज्यमुपासितुम्।।

सदैव त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम्।
क्लीबं धर्मघृणायुक्तं न लोको बहुमन्यते।।

राजधर्ममवेक्षस्व पितृपैतामहोचितम्।
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि।।

न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः।
प्रजापालनसंभूतं प्राप्तो धर्मफलं ह्यसि।।

न ह्येतामाशिषं पाण्डुर्न च कुन्त्यभ्यभाषत।
`विचित्रवीर्यो धर्मात्मा चित्रवीर्यो नराधिपः।।

शन्तनुश्च महीपालः सर्वक्षत्रस्य पूजितः।'
तवैतां प्राज्ञतां तात यथा चरसि मेधया।।

शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत्।
महत्त्वं बलमौदार्यं भवतः कुन्त्ययाचत।।

नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते।
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च।।

दानमध्ययनं यज्ञं प्रजानां परिपालनम्।
धर्म्यमेतदधर्म्यं वा जन्मनैवाभ्यजायथाः।।

कुले धुरि च युक्तानां वहतां भारमीदृशम्।
सीदतामपि कौन्तेय कीर्तिर्न परिहीयते।।

समन्ततो विनीतो यो वहत्यस्खलितो हि सः।
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा।।

नैकान्ते विनिपातेऽपि विहरेदिह कश्चन।
धर्मी गृही वा राजा वा ब्रह्मचार्यथवा द्विजः।।

अल्पं हि सारभूयिष्ठं यत्कर्मोदारमेव तत्।
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्य कर्मणः।।

यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्।
योगक्षेमस्तदा राज्ञः कुशलायैव कल्पते।।

दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः।।

यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः।
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः।।

युधिष्ठिर उवाच।

किं न्वतः परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा।
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि।।

भीष्म उवाच।

यस्मिन्भयार्दिताः सन्तः क्षेमं विन्दन्त्यपि क्षणम्।
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते।।

त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम।
भव राजा जय स्वर्गं सतो रक्षाऽसतो जहि।।

अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह।
पर्जन्यमिव भूतानि स्वादुद्रुममिव द्विजाः।।

धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्।
वत्सलं संविभक्तारमुपजीवन्तु बान्धवाः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चसप्ततितमोऽध्यायः।। 75।।