शांतिपर्व
अध्यायः ७४
`युधिष्ठिर उवाच।
ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह।
पुरोहितप्रभावश्च लक्षणं च पुरोधसः।।
इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम्।
ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम्।
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च।।'
भीष्म उवाच।
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते।
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते।।
यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत।
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च।।
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः।
जिज्ञासमानः स बलमभ्ययादलकाधिपम्।।
ततो वैश्रवणो राजा राक्षसानसृजत्तदा।
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः।।
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः।
गर्हयामास विद्वांसं पुरोहितमरिन्दमः।।
तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः।
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत।।
ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत्।
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्।।
धनद उवाच।
बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः।
न चैवं समवर्तन्त यथा त्वमिव वर्तसे।।
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः।
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः।।
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि।
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे।।
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्।
न्यायपूर्वमसंलब्धमसंभ्रान्तमिदं वचः।।
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा।
पृथग्बलविधानं च तल्लोकं परिपालयेत्।।
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्।
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्।।
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम्।
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप।।
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्।
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत।।
नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव।
प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम्।
[एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः।।]
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव।
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये।।
भीष्म उवाच।
ततो वैश्रवणो राजा विस्मयं परमं ययौ।
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम्।।
ततो राजा मुचुकुन्दः सोन्वशासद्वसुंधराम्।
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः।।
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते।
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते।।
नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः।
तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम्।।
यशश्च तेजश्व महीं च कृत्स्नां
प्राप्नोति राजन्विपुलां च कीर्तिम्।
प्रधानधर्मं नृपते नियच्छ
तथा च धर्मस्य चतुर्थमंशम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुःसप्ततितमोऽध्यायः।। 74।।