शांतिपर्व
अध्यायः ६८
युधिष्ठिर उवाच।
पार्थिवेन विशेषेण किं कार्यमवशिष्यते।
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः।।
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत।।
भीष्म उवाच।
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा।।
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः।
अजितात्मा नरपतिर्विजयेत कथं रिपून्।।
एतावानात्मविजयः पञ्चवर्गविनिग्रहः।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन्।।
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन।
नगरोपवने चैव पुरोद्याने तथैव च।।
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च।
मध्ये च नरशार्दूल तथा राजनिवेशने।।
प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन्।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान्।।
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः।।
पुरे जनपदे चैव तथा सामन्तराजसु।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते।।
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ।
आपणेषु विहारेषु समवायेषु वीथिषु।।
आरामेषु तथोद्याने पण्डितानां समागमे।
वेशेषु चत्वरे चैव सभास्वावसथेषु च।।
एवं विहन्याच्चारेण परचारं विचक्षणः।
चारे च विहते सर्वं हतं भवति भारत।।
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना।
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा।।
`विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः।
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते।।
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्ववित्।
पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम्।
वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ।। '
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै।
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः।।
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये।
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन्।।
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः।।
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः।
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्।।
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः।।
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा।।
न च पश्यो भवेदस्य नृपो यश्चातिवीर्यवान्।
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत्।।
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत्।।
वर्जनीयं सदा युद्धं राज्यकामेन धीमता।
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः।।
सान्त्वेन तु प्रदानेन भेदेन च नराधिप।
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः।।
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन।
षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये।।
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा।
तन्नाददीत सहसा पौराणां रक्षणाय वै।।
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः।
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने।।
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः।
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्।।
आकरे लवणे शुल्के तरे नागबले तथा।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान्।।
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्।
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते।।
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्।
दानशीलश्च सततं यज्ञशीलश्च भारत।।
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः।
व्यवहारस्य लोपेन कुतः स्वर्गः कुतो यशः।।
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा।
[तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः।।
विधावाक्रम्य मित्राणि विधानमुपकल्पयेत्।
सामभेदान्विरोधार्थं विधानमुपकल्पयेत्।।]
`त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत्।'
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि।
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि।।
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः।।
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः।
असंभवे प्रवेशस्य दाहयेदग्निना भृशम्।।
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान्।
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै।।
नदीमार्गेषु च तथा संक्रमानवसादयेत्।
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत्।।
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम्।
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते।।
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत्।।
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा।
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम्।।
`देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम्।
पिशाचपन्नगानां च गन्धर्वाप्सरसामपि।
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत्।।
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम्।
महेश्वरगणेशेन वाराणस्यां नराधिप।। '
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा।
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्।।
सङ्कटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत्।।
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा।
आरापयेच्छतघ्नीश्च स्वाधीनानि च कारयेत्।।
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्।
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः।।
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत्।
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा।।
नक्तमेव च भक्तानि पाचयेत नराधिपः।
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम्।।
`यथासंभवशैलानि चैष्टकानि च कारयेत्।
मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम्।। '
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः।
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः।।
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च।।
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान्।
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः।।
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च।
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः।।
विशालान्राजमार्गांश्च कारयेत नराधिपः।
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत्।।
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः।
अश्वागारान्गजागारान्बलाधिकरणानि च।।
परिखाश्चैव कौरव्य प्रतोलीसङ्कटानि च।
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर।।
अर्थसंनिचयं कुर्याद्राजा परबलार्दितः।
तैलं मधु घृतं सस्यमौषधानि च सर्वशः।।
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम्।
यवसेन्धनदिग्धानां कारयेत च संचयान्।।
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम्।
संचयानेवमादीनां कारयेत नराधिपः।।
औषधानि च सर्वाणि मूलानि च फलानि च।
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषठः।।
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः।।
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान्।।
कृते कर्माणि राजा तान्पूजयेद्धनसंचयैः।
माननेन यथार्हेण सान्त्वेन विविधेन च।।
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन।
गतानृण्यो भवेद्राजा यथा शास्त्रे निदर्शितम्।।
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे।
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि।।
तथा जनपदाश्चैव पुरं च कुरुनन्दन।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः।।
षाङ्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा।
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम्।।
षाङ्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर।
सन्धायासनमित्येव यात्रासन्धानमेव च।।
विगृह्यासनमित्येव यात्रां संपरिगृह्य च।
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च।।
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा।।
`धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः।
मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः।
शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम्।।
कार्यं च कारणं चैव कर्ता च परिकीर्तितः।
एतत्परतरं विद्यान्त्रिवर्गादपि भारत।
सर्वेपां च क्षये राजन्यस्त्रिवर्गः सनातनः।।
सत्वं रजस्तमश्चैव त्रिवर्गकरणं स्मृतम्।
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते।।
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते।
तेन मोक्षपरश्चैव देवदेवः पितामहः।
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह पितामहः।।
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता।'
धर्मोऽर्थश्चैव कामश्च सेवितव्याः स्वकालतः।।
`सेवा धर्मस्य कर्तव्या सततं भूरिवत्सरैः।
पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः।।'
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम्।
`यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः।
अर्थकामविहीनोऽपि चिरं पालयते महीम्।।'
अस्मिन्नर्थे हि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम्।
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि।।
कृत्वा कार्याणि धर्मेण सम्यक्संपाल्य मेदिनीम्।
पालयित्वा तथा पौरान्परत्र सुखमेधते।।
किं तस्य तपसा राज्ञः किंच तस्याध्वरैः कृतैः।
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः।।
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर।
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते।।
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम्।
विषं माया च दैवं च पौरुषं चात्मसिद्धये।।
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः।
त्रिवर्गत्रयसंपूर्णमुपादाय तमुद्वहेत्।।
षट्पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः।
त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीर्यते।।
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च।
दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः।
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्भुखी।।
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च।
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत्।।
विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु।
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः।।
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः।
दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत्।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टषष्टिमोऽध्यायः।। 68।।