शांतिपर्व

अध्यायः ६७

Santi Parva (Sanskrit) · Adhyaya 67
अक्षर का आकार

युधिष्ठिर उवाच।

किमाहुर्दैवतं विप्रा राजानं भरतर्षभ।
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतिं वसुमना यथा पप्रच्छ भारत।।

राजा वसुमना नाम कौसल्यो धीमतां वरः।
महर्षि किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम्।।

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम्।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्।।

विधिं पप्रच्छ राजस्य सर्वलोकहिते रतः।
प्रजानां सुखमन्विच्छन्धर्मशीलं बृहस्पतिम्।।

केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा।
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः।।
`एतन्मे शंस देवर्षे धर्मकामार्थसंशयम्'।।

एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा।
राजसत्कारमव्यग्रो राज्यस्य च विवर्धनम्।
दण्डनीतिं समाश्रित्य शशंसास्मै बृहस्पतिः।।

राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते।
प्रजा राजभयादेव न खादन्ति परस्परम्।।

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्।
प्रसादयति धर्मेण प्रसाद्य च विराजते।।

यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्।।

यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः।
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः।।

विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः।।

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा।।

हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान्।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्।।

ममेदमिति लोकेऽस्मिन्न भवेत्स्वपरिग्रहः।
न दारा न च पुत्रः स्यान्न धनं न परिग्रहः।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्।।

यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च।
हरेयुः सहसा पापा यदि राजा न पालयेत्।।

पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत्।।

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्।।

`अन्यांश्च क्रोशतो हिंस्युर्लोकोऽयं दस्युवद्भवेत्।'
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्।।

अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत्।
पतेद्बहुविधं राज्यं यदि राजा न पालयेत्।।

न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्।।

न यज्ञाः संप्रवर्तेयुर्विधिवत्स्वाप्तदक्षिणाः।
न विवाहाः समाजो वा यदि राजा न पालयेत्।।

न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्।।

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्।।

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्।।

ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्।।

न भवेद्धर्मसंसेवी मोहविप्रहतो जनः।
हर्ता स्वच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत्।।

हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः।
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्।।

अनयाः संप्रवपर्तेरन्भवेद्वै वर्णसङ्करः।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्।।

विवृत्य हि यथाकामं गृहद्वाराणि शेरते।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः।।

नाक्रुष्टं सहते कश्चित्कुतो वा हस्तलाघवम्।
यदि राजा न सम्यग्गां रक्षयत्यपि धार्मिकः।।

स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः।
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः।।

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः।।

यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः।
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः।।

वार्तामूलो ह्ययं लोकस्तया वै धार्यते सदा।
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः।।

यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः।
महता बलयोगेन तदा लोकः प्रसीदयि।।

यस्याभावेन भूतानामभावः स्यात्समन्ततः।
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत्।।

तस्य यो वहते भारं सर्वलोकसुखावहम्।
तिष्ठन्प्रियहिते राज्ञ उभौ लोकाविमौ जयेत्।।

यस्तस्य पुरुषः पापं मनसाऽप्यनुचिन्तयेत्।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत्।।

न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति।।

कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा।
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः।।

यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा।
मिथ्योपचरितो राजा तदा भवति पावकः।।

यदा पश्यति चारेण सर्वभूतानि भूमिपः।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः।।

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्।
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः।।

यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्‍डैर्नियच्छति।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा।।

यदा तु धनधाराभिस्तर्पयत्युपकारिणः।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणां।।

श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति।
तदा वैश्रवणो राजा लोके भवति भूमिपः।।

नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा।
धर्ममाकाङ्क्षता लोके ईश्वरस्यानसूयता।।

न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात्।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्।।

कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः।
न तु राज्ञाऽभिपन्नस्य शेषं क्वचन विद्यते।।

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्।
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः।।

वध्येतभिमृशन्सद्यो मृगः कूटमिव स्पृशन्।
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान्।।

महान्तं नरकं घोरमप्रतिष्ठमचेतसः।
पतन्ति चिररात्राय राजवित्तापहारिणः।।

राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति।।

तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः।
मेधावी धृतिमान्दक्षः संश्रयेत् महीपतिम्।।

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्।
धर्मनित्यं स्थितं स्थाने मन्त्रिणं पूजयेन्नृपः।।

दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्।
शूरमक्षुद्रकर्माणं प्रसिद्धं जनमाश्रयेत्।।

राजा प्रगल्भं पुरुषं करोति
राजा भृशं बृंहयते मनुष्यम्।
राजाभिपन्नस्य कुतः सुखानि
राजाऽभ्युपेतं सुखिनं करोति।।

`राजा प्रजानां प्रथमं शरीरं
प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न भवन्ति देशा
देशैर्विहीना न नृपा भवन्ति।।'

राजा प्रजानां हृदयं गरीयो
गतिः प्रतिष्ठा सुखमुत्तमं च।
समाश्रिता लोकमिमं परं च
जयन्ति सम्यक्पुरुषा नरेन्द्र।।

नराधिपश्चाप्यनुशिष्य मेदिनीं
दमेन सत्येन च सौहृदेन।
महद्भिरिष्ट्वा क्रतुभिर्महायशा
स्त्रिविष्टपे स्थानमुपैति शाश्वतम्।।

भीष्म उवाच।

स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः।
प्रयत्नात्कृतवान्वीरः प्रजापालनमुत्तमम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तषष्टितमोऽध्यायः।। 67।।