शांतिपर्व
अध्यायः ६९
युधिष्ठिर उवाच।
दण्डनीतिश्च राजा च समस्तौ तावुभावपि।
तत्र किं कुर्वतः सिद्धिस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
माहात्म्यं दण्डनीत्यास्तु साध्यं शब्दैः सहेतुकैः।
शृणु मे शंसतो राजन्यथावदिह भारत।।
दण्डनीतिः स्वधर्मेषु चातुर्वर्ण्यं नियच्छति।
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति।।
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे।
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये।।
सोमे प्रयत्नं कुर्वन्ति वयो वर्णा यथाविधि।
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम्।।
कालो वा कारणं राज्ञो राजा वा कालकारणम्।
इति ते संशयो माभूद्राजा कालस्य कारणम्।।
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते।
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते।।
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्।
सर्वेषामेव वर्णानां नाधर्मे रमते मनः।।
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः।
वैदिकानि च कर्माणि भवन्त्यपि गुणान्युत।।
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः।
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च।।
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः।
विधवा न भवन्त्यत्र नृशंसो नात्र जायते।।
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च।।
नाधर्मो विद्यते तत्र धर्म एव तु केवलम्।
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर।।
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते।
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते।।
अधर्मस्य चतुर्थांशस्त्रीनंशाननुवर्तते।
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा।।
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते।
ततस्तु द्वापरं नाम स कालः संप्रवर्तते।।
अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते।
कुष्टपच्यैव पृथिवी भवत्यर्धफला तथा।।
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः।
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः।।
कलावधर्मो भूयिष्ठो धर्मो भवति न क्वचित्।
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः।।
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया।
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः।।
वैदिकानि च कर्माणि भवन्ति विगुणान्युत।
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा।।
ह्रसन्त च मनुष्याणां स्वरवर्णमनांस्युत।
व्याधयश्च भवन्त्यत्र म्रियन्ते चाशतायुषः।।
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा।
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति।।
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः।
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः।।
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च।
युगस्य च चतुर्थस्य राजा भवति कारणम्।।
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते।।
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते।।
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः।
प्रजानां कल्मषे मग्नोऽकीर्ति पापं च विन्दति।।
दण्डनीतिं पुरस्कृत्य क्षत्रियेण विजानता।
लिप्सितव्यमलभ्यं च लब्धं रक्ष्यं च भारत।
`योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः।।'
लोकस्य सीमन्तकरी मर्यादा लोकपावनी।
सम्यङ्गीता दण्डनीतिर्यथा माता यथा पिता।।
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ।
एष एव परो धर्मो यद्राजा दण्डनीतिमान्।।
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्।
एवं वृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनसप्ततितमोऽध्यायः।। 69।।