शांतिपर्व

अध्यायः ६६

Santi Parva (Sanskrit) · Adhyaya 66
अक्षर का आकार

युधिष्ठिर उवाच।

चातुराश्रम्यमुक्तं ते चातुर्वण्यं तथैव च।
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम्।
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत।।

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते।
परस्परं च खादन्ति सर्वथा धिगराजकम्।।

इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः।
यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता।।

नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्।
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः।।

अथ चेदधिवेर्तेत राज्यार्थी बलवत्तरः।
अराजकाणि राष्ट्राणि हतवीराणि वा पुनः।।

प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्।
न हि राज्यात्पापतरमस्ति किंचिदराजकात्।।

स चेत्समनुपश्येत समग्रं कुशलं भवेत्।
बलवान्हि प्रकुपितः कुर्यान्निः शेषतामपि।।

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि।।

यदतप्तं प्रणमते न तत्संतापयन्त्युत।
यत्स्वयं नमते दारु न तत्संनामयन्त्यपि।।

एतयोपमया धीरः सन्नमेत बलीयसे।
इन्द्राय स प्रणमते नमते यो बलीयसे।।

तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता।
न धनार्थो न दारार्थस्तेषां येषामराजकम्।।

प्रीयते हि हरन्पापः परवित्तमराजके।
यदाऽस्य तद्धरन्त्यन्ये तदा राजानमिच्छति।।

पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन।
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे।।

अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः।
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे।।

राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः।
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः।।

अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान्।।

समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम्।
वाक्शूरो दण्डपरुषो यश्च स्यात्पारदारिकः।।

यश्च नः समयं भिन्द्यात्त्याज्या नस्तादृशा इति।
विश्वासार्थं च सर्वेषां वर्णानामविशेषतः।
तास्तथा समयं कृत्वा समयेनावतस्थिरे।।

सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्।
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश।।

यं पूजयेम संभूय यश्च नः प्रतिपालयेत्।
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः।।

मनुरुवाच।

बिभेमि कर्मणः पापाद्राज्यं हि भृशदुष्करम्।
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा।।

भीष्म उवाच।

तमब्रुवन्प्रजा मा भैर्विधास्यामो धनं तव।
पशूनामथ पञ्चांशं धरण्यस्य तथैव च।।

धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्।
कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च।।

मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः।
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः।।

स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्।
सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान्।।

यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः।
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति।।

तेन धर्मेण महता सुखं लब्धेन भावितः।
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः।।

विजयाय हि निर्याहि प्रतपत्रश्मिवानिव।
मानं विधम शत्रूणां धर्मं जनय नः सदा।।

स निर्ययौ महातेजा बलेन महता वृतः।
महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव।।

तस्य दृष्ट्वा महत्वं ते महेन्द्रस्येव देवताः।
अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः।
`वर्णिनश्चाश्रमाश्चैव म्लेच्छाः सर्वे च दस्यवः।।'

ततो महीं परिययौ पर्जन्य इव वृष्टिमान्।
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन्।।

एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्।
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात्।।

नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा।
देवा इव च देवेन्द्रं नरा राजानमन्तिकात्।।

सत्कृतं स्वजनेनेह परोऽपि बहुमन्यते।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत।।

राज्ञः परैः परिभवः सर्वेषामसुखावहः।
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च।।

भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च।
आसनानि च शय्याश्च सर्वोपकरणानि च।।

गोप्ता चास्य दुराधर्षः स्मितपूर्वाभिभाषिता।
आभाषितश्च मधुरं प्रत्याभाषेत मानवान्।।

कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः।
ईक्षितः प्रतिवीक्षेत मृदु वल्गु च चर्जु च।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षट्‌षष्टिमोऽध्यायः।। 66।।