शांतिपर्व
अध्यायः ६५
युधिष्ठिर उवाच।
श्रुता मे कथिताः पूर्वं चत्वारो मानवाश्रमाः।
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह।।
भीष्म उवाच।
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर।
यथा मम महाबाहो विदिताः साधुसंमताः।।
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर।
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप।
सर्वाण्येतानि कौन्तेय विद्यन्ते भरतर्षभ।
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम्।।
अकामद्वेषसंयुक्तो दण्डनीत्या युधिष्ठिर।
समदर्शी च भूतेषु भैक्ष्याश्रमपदं भवेत्।।
वेत्ति दानं विसर्गं च विग्रहानुग्रहौ तथा।
यथोक्तवृत्तो धीरश्च क्षमाश्रमपदं भवेत्।।
अर्हान्पूजयतो नित्यं संविभागेन पाण्डव।
सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत्।।
ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर।
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत्।।
लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत्।
कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत्।।
आह्निकं पितृयज्ञांश्च भूतयज्ञान्समानुषान्।
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत्।।
संविभागेन भूतानामतिथीनां तथाऽर्चनात्।
देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत्।।
मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम।
कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत्।।
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात्।
दीक्षा बहुविधा राजन्सत्याश्रमपदं भवेत्।।
वेदाध्ययननित्यत्वं क्षमाऽथाचार्यपूजनम्।
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत्।।
आह्निकाञ्जपमानस्य देवान्पूजयतः सदा।
धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत्।।
मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः।
प्राणद्यूते व्यवस्थाप्य ब्रह्माश्रमपदं भवेत्।।
अजिह्नमशठं मार्गं वर्तमानस्य भारत।
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत्।।
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत।
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत्।।
सर्वभूतेष्वनुक्रोशं कुर्वतस्तव भारत।
आनृशंस्ये प्रवृत्तस्य नियतः पुण्यसंचयः।।
बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर।
अनुक्रोशक्रिया पार्थ धर्म एष सनातनः।।
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह।
शरणागतेषु कौरव्य परं कारुण्यमाचर।।
चराचराणां भूतानां रक्षणं चापि सर्वशः।
यथार्हपूजां च तथा कुर्वन्गार्हस्थ्यमावसेत्।।
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम्।
निग्रहानुग्रहौ पार्थ गार्हस्थ्यममितं तपः।।
साधूनामर्चनीयानां पूजासु विदितात्मनाम्।
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत्।।
आश्रमस्थानि भूतानि यस्य वेश्मनि भारत।
भुञ्जते विपुलं भोज्यं तद्गार्हस्थ्यं युधिष्ठिर।।
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्।
आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम्।।
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा।
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर।।
स्थानमानं कुलेमानं वयोमानं तथैव च।
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर।।
देशधर्मांश्च कौन्तेय कुलधर्मास्तथैव च।
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत्।।
काले विभूतिं भूतानामुपहारांस्तथैव च।
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत्।।
देशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते।
सर्वलोकस्य कौन्तेय राजा भवति सोश्रमी।।
ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत।
पालिता यस्य विषये पादांशस्तस्य भूपतेः।।
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान्।
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते।।
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर।
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ।।
सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम्।
पावनं पुरुषव्याघ्र यद्वयं पर्युपास्महे।।
आत्मोपमस्तु भूतेषु यो वै भवति मानवः।
न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम्।।
धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा।
त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति।।
यदा सर्वत्र निर्मुक्तः कामो नास्य हृदि स्थितः।
यदा सत्यान्वितो वृत्तैस्तदा ब्रह्म सम श्नुते।।
सुप्रसन्नस्तु भावेन योगेन च नराधिप।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः।।
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्।
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ।।
वने चरन्ति ये धर्ममाश्रमेषु च भारत।
रक्षणात्तच्छतगुणं धर्मं प्राप्नोति पार्थिवः।।
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः।
युधिष्ठिर त्वमेनं वै पूर्वं दृष्टं सनातनम्।।
चातुराश्रम्यमैकाग्र्यं चातुर्वर्ण्यं च पाण्डवं।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चषष्टितमोऽध्यायः।। 65।।