शांतिपर्व

अध्यायः ६२

Santi Parva (Sanskrit) · Adhyaya 62
अक्षर का आकार

भीष्म उवाच।

ज्याकर्षणं शत्रुनिवर्हणं च
कृपिर्वणिज्या पशुपालनं च।
शुश्रूषणं चापि तथाऽर्थहेतो
रकार्यमेतत्परमं द्विजस्य।।

सेव्यं तु ब्रह्म षट्‌कर्म गृहस्थेन मनीषिणा।
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते।।

राजप्रेष्यं कृषिधनं जीवनं च वणिज्यया।
कौटिल्यं कौलटेयं च ब्राह्मणस्य विगर्हितम्।।

शूद्रो राजन्भवति ब्रह्मबन्धु
र्दुश्चारित्रो यश्च धर्मादपेतः।
वृपलीपतिः पिशुनो नर्तनश्च।
ग्रामप्रेष्यो यश्च भवेद्विकर्मा।।

राजन्नेतान्वर्जयेद्देवकृत्ये।।

निर्मर्यादे वाक्छठे क्रूरवृत्तौ।
हिंसाकामे त्यक्तवृत्तस्वधर्मो।
हव्यं कव्यं यानि चान्यानि राजन्
देयान्यदेयानि भवन्ति तस्मिन्।।

तस्माद्धर्मो विहितो ब्राह्मणस्य
दमः शौचं चार्जवं चापि राजन्।
तथा विप्रस्याश्रमाः सर्व एव
पुरा राजन्ब्रह्मणा संनिसृष्टाः।।

यः स्याद्दान्तः सोमपाश्चार्यशीलः
सानुक्रोशः सर्वसहो निराशीः।
ऋजुर्मृदुरनृशंसः क्षमावान्
स वै विप्रो नेतरः पापकर्मा।।

विप्रं वैश्यं राजपुत्रं च राजन्
लोकाः सर्वे संश्रिता धर्मकामाः।
तस्माद्वर्णाञ्जातिधर्मेषु सक्ता
ञ्जेतुं विष्णुर्नेच्छति पाण्डुपुत्र।।

लोकश्चायं सर्वलोकस्य न स्या
च्चातुर्वर्ण्यं वेदवादाश्च न स्युः।
सर्वाश्चेज्याः सर्वलोकक्रियाश्च
सद्यः सर्वे चाश्रमाश्चैव न स्युः।।

यच्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्।
कर्तुमाश्रमदृष्टांश्च धर्मास्ताञ्शृणु पाण्डव।।

शुश्रूषोः कृतकार्यस्य कृतसंतानकर्मणः।
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते।।

अल्पान्तरगतस्यापि देशधर्मगतस्य वा।
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्।।

भैक्षचर्यां नचैवाहुस्तस्य तद्धर्मवादिनः।
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि।।

कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः।
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रमसंश्रयम्।।

वेदानधीत्य धर्मेण राजशास्त्राणि चानघ।
संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च।।

पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर।
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च।।

आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः।
संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु।।

स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव।
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ।।

अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि।
देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः।।

अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम्।
सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात्।।

राजर्षित्वेन राजेन्द्र भैक्ष्यचर्याद्यसेवया।
अपेतगृहधर्मापि चरेज्जीवितकाम्यया।।

न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण।
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम्।।

बाह्वायत्तं क्षत्रियैर्मानवानां
लोकश्रेष्ठं धर्ममासेवमानैः।
सर्वे धर्माः सोपधर्मास्त्रयाणां
राज्ञो धर्मं नीतिशास्त्रे शृणोमि।।

यथा राजन्हस्तिपदे पदानि
संलीयन्ते सर्वसत्वोद्भवानि।
एवं धर्मान्राजधर्मेषु सर्वान्
सर्वावस्थान्संप्रलीनान्निबोध।।

अल्पाश्रयानल्पफलान्वदन्ति
धर्मानन्यान्धर्मविदो मनुष्याः।
महाश्रयं बहुकल्याणरूपं
क्षात्रं धर्मं नेतरं प्राहुरार्याः।।

सर्वे धर्मा राजधर्मप्रधानाः
सर्वे वर्णाः पाल्यमाना भवन्ति।
सर्वस्त्यागो राजधर्मेषु राजं
स्त्यागं धर्मं चाहुरग्र्यं पुराणम्।।

मज्जेत्रयी दण्डनीतौ हतायां
सर्वे धर्माः प्रक्षयेयुर्विरुद्धाः।
सर्वे धर्माश्चाश्रमाणां हताः स्युः
क्षात्रे नष्टे राजधर्मे पुराणे।।

सर्वे भोगा राजधर्मेषु दृष्टाः
सर्वा दीक्षा राजधर्मेषु चोक्ताः।
सर्वा विद्या राजधर्मेषु युक्ताः
सर्वे लोका राजधर्मे प्रविष्टाः।।

नान्यो लोके विद्यतेऽजातशत्रो।।

सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम।
भवन्ति जीवलोकाश्च क्षत्रधर्मे प्रतिष्ठिताः।।

यथा जीवाः प्राकृतैर्वध्यमाना
धर्मश्रुतीनामुपपीडनाय।
एवं धर्मा राजधर्मैर्वियुक्ताः
संचिन्वन्तो नाद्रियन्ते स्वधर्मम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्विषष्टितमोऽध्यायः।। 62।।