शांतिपर्व
अध्यायः ६१
युधिष्ठिर उवाच।
पुनः शिवान्महोदर्कानहिंस्रांल्लोकसंमतान्।
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान्।।
भीष्म उवाच।
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो।
वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम।।
उक्तानि कर्माणि बहूनि राज
न्स्वर्ग्याणि राजन्यपरायणानि।
शास्त्रस्य सर्वस्य विधौ स्मृतानि
क्षात्रे हि सर्वं विहितं यथावत्।।
क्षात्राणि वैश्यानि च सेवमानः
शौद्राणि कर्माणि च ब्राह्मणः सत्।
अस्मिँल्लोके निन्दितो मन्दचेताः।
परे च लोके निरयं प्रयाति।।
या संज्ञा विहिता लोके दासे शुनि वृके पशौ।
विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव।।
षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि।
सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः।।
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च।
निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः।।
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च।
तादृशं तादृशेनैव सगुणं प्रतिपद्यते।।
वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च।
वेत्तुमर्हसि राजेन्द्र स्वाध्यात्मगुणितेन च।।
कालसंचोदितः काले कालपर्यायनिश्चितः।
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः।।
अन्तवन्ति प्रदानानि परं श्रेयस्कराणि च।
स्वकर्मविहितो लोको ह्यक्षरः सर्वतोमुखः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकषष्टितमोऽध्यायः।। 61।।