शांतिपर्व

अध्यायः ६३

Santi Parva (Sanskrit) · Adhyaya 63
अक्षर का आकार

भीष्म उवाच।

चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः।।

सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम।
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते।।

अप्रत्यक्षं बहुफलं धर्ममाश्रमवासिनाम्।
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम्।।

अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चये।
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः।।

प्रत्यक्षं फलभूयिष्ठमात्मसाक्षिकमच्छलम्।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्।।

धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर।
यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा।
राजधर्मेष्वनुमता लोकाः सुचरितैः सह।।

उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्।
सर्वभूतेश्वरं देवं ब्राह्मं नारायणं पुरा।
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये।।

एकैकमात्मनः कर्म तुलयित्वाश्रमं पुरा।
जानः पर्युपासन्त दृष्टान्तवचने स्थिताः।।

साध्या देवा वसवश्चाश्विनौ च
रुद्राश्च विश्वे मरुतां गणाश्च।
सृष्टाः पुरा ह्यादिदेवेन देवाः
क्षात्रे धर्मे वर्तयन्ते च सिद्धाः।।

अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चये।
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा।।

बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान्।
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया।।

अनादिमध्यनिधनं देवं नारायणं प्रभुम्।
स राजा राजशार्दूल मान्धाता परमेश्वरम्।।

जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः।
दर्शयामास तं विष्णू रूपमास्थाय वासवम्।।

स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम्।
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः।
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम्।।

इन्द्र उवाच।

किमिष्यसे धर्मभूतां वरिष्ठ
यं द्रष्टुकामोऽसि तमप्रमेयम्।
अनन्तमायामितमन्त्रवीर्यं
नारायणं ह्यादिदेवं पुराणम्।।

नासौ देवो विश्वरूपो मयाऽपि
शक्यो द्रष्टुं ब्रह्मणा वाऽपि साक्षात्
येऽन्ये कामास्तव राजन्हृदिस्था
दास्ये चैतांस्त्वं हि मर्त्येषु राजा।।

सत्ये स्थितो धर्मपरो जितेन्द्रियः
शूरो दृढप्रीतिरतः सुराणाम्।
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च
ततस्तेऽहं दझि वरान्यथेष्टम्।।

मान्धातोवाच।

असंशयं भगवन्नादिदेवं
वक्ष्यामि त्वाऽहं शिरसा संप्रसाद्य।
त्यक्त्वा कामान्धर्मकामो ह्यरण्य
मिच्छे गन्तुं सत्पथं साधुजुष्टम्।।

क्षात्राद्धर्माद्विपुलादप्रमेया
श्लोकाः प्राप्ताः स्थापितं स्वं यशश्च।
धर्मो योऽसावादिदेवात्प्रवृत्तो
लोकश्रेष्ठं तं न जानामि कर्तुम्।।

इन्द्र उवाच।

असैनिका धर्मपराश्च धर्मे
परां गतिं न नयन्ते ह्ययुक्तम्।
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः
पश्चादन्ये शेषभूताश्च धर्माः।।

शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः
सप्रस्थानाः क्षात्रधर्मा विशिष्टाः।
अस्मिन्धर्मे सर्वधर्माः प्रविष्टाः
क्षात्रं धर्मं श्रेष्ठतमं वदन्ति।।

कर्मणा वै पुरा देवा ऋषयश्चामितौजसः।
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना।।

यदि ह्यसौ भगवन्नाहनिष्य
द्रिपू सर्वानसुरानप्रमेयः।
न च ब्रह्मा नैव लोकादिकर्ता
सन्तो धर्माश्चादिधर्माश्च न स्युः।।

इमामुर्वी नाजयद्विक्रमेण
देवश्रेष्ठः सासुरामादिदेवः।
चातुर्वर्ण्यं चातुराश्रम्यधर्माः
सर्वे न स्युर्ब्राह्मणानां विनाशात्।।

नष्टा धर्माः शतधा शाश्वतास्ते
क्षात्रेण धर्मेण पुनः प्रवृद्धाः।
युगेयुगे ह्यादिधर्माः प्रवृत्ता
लोकज्येष्ठं क्षात्रधर्मं वदन्ति।।

आत्मत्यागः सर्वभूतानुकम्पा
लोकज्ञानं पालनं मोक्षणं च।
विषण्णानां मोक्षणं पीडितानां
क्षात्रे धर्मे विद्यते पार्थिवानाम्।।

निर्मर्यादाः काममन्युप्रवृत्ता
भीता राज्ञो नाधिगच्छन्ति पापम्।
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः
साध्वाचाराः साधुधर्मं वदन्ति।।

पुत्रवत्पाल्यमानानि धर्मलिङ्गानि पार्थिवैः।
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः।।

सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम्।
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रिषष्टितमोऽध्यायः।। 63।।