शांतिपर्व
अध्यायः ६०
भीष्म उवाच।
आश्रमाणां महाबाहो शृणु सत्यपराक्रम।
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर।।
वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम्।
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम्।।
चूडाकरणसंस्कारं द्विजातित्वमवाप्य च।
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च।।
सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः।
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात्।।
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्।
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम्।।
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम्।
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता।।
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते।
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे।।
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः।
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः।।
निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान्।
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्।।
अधीत्य वेदान्कृतसर्वकृत्यः
संतानमुत्पाद्य सुखानि भुक्त्वा।
समाहितः प्रचरेद्दुश्चरं तं
गार्हस्थ्यधर्मं मुनिधर्मजुष्टम्।।
स्वदारतुष्टस्त्वृतुकालगामी
नियोगसेवी न शठो न जिह्नः।
मिताशनो देवरतः कृतज्ञः
सत्यो मृदुश्चानृशंसः क्षमावान्।।
दान्तो विधेयो हव्यकव्याप्रमत्तो
ह्यन्नस्य दाता सततं द्विजेभ्यः।
अमत्सरी सर्वलिङ्गप्रदाता
वैताननित्यश्च गृहाश्रमी स्यात्।।
अथात्र नारायणगीतमाहु
र्महर्षयस्तात महानुभावाः।
महार्थमत्यन्ततपः प्रयुक्तं
तदुच्यमानं हि मया निबोध।।
सत्यार्जवं चातिथिपूजनं च
धर्मस्तथार्थश्च रतिः स्वदारैः।
निषेवितव्यानि सुखानि लोके
ह्यस्मिन्परे चैव मतं ममैतत्।।
भरणं पुत्रदाराणां वेदानां चानुपालनम्।
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः।।
एवं हि यो ब्राह्मणो यज्ञशीलो
गार्हस्थ्यमध्यावसते यथावत्।
गृहस्थवृत्तिं प्रतिगाह्य सम्य
क्स्वर्गे विशुद्धं फलमश्नुते सः।।
तस्य देहं परित्यज्य इष्टकामाक्षया मताः।
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः।।
वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्।।
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी।
`गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः।'
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा।।
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च।
षट्कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः।।
नाचरत्यधिकारेण सेवेत द्विषतो न च।
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षष्टितमोऽध्यायः।। 60।।