शांतिपर्व

अध्यायः ५९

Santi Parva (Sanskrit) · Adhyaya 59
अक्षर का आकार

वैशंपायन उवाच।

ततः पुनः स गाङ्गेयमभिवाद्य पितामहम्।
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः।।

के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक्।
चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के मताः।।

केन वै वर्धते राष्ट्रं राजा केन विवर्धते।
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ।।

कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा।
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः।।

केषु विश्वसितव्यं स्याद्राज्ञा कस्यांचिदापदि।
कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह।।

`द्वैधीभावे च भृत्यानां शपथः कीदृशो भवेत्।
अधर्मस्य फलं यच्च शपथस्य विलङ्घने।।

सर्वमेतद्यथातत्वं व्यवहारं च तादृशम्।
समासव्यासयोगेन कथयस्व पितामह।।'

भीष्म उवाच।

नमो धर्माय महते नमः कृष्णाय वेधसे।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्।।

अक्रोधः सत्यवचनं संविभागश्च सर्वशः।
प्रजनं स्वेषु दारेषु शौचमद्रोह एव च।।

आर्जवं भृत्यभरणं त एते सार्ववर्णिकाः।
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्।।

दममेव महाराज धर्ममाहुः पुरातनम्।
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते।।

तं चेद्द्विजमुपागच्छेद्वर्तमानं स्वकर्मणि।
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम्।।

कुर्वीतापत्यसंतानमथो दद्याद्यजेत च।
संविभज्य च भोक्तव्यं धनं सद्भिरीतीष्यते।।

परिनिष्ठितकार्यस्तु स्वाध्यायेनैव वै द्विजः।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते।।

क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत।
दद्याद्राजा न याचेत यजेत न च याजयेत्।।

नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्।
नित्योद्युक्तो दस्युवदे रणे कुर्यात्पराक्रमम्।।

ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः।
य एवाहवजेतारस्त एषां लोकजित्तमाः।।

अविक्षतेन देहेन समराद्यो निवर्तते।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः।।

एवं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः।
नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात्।।

दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते।
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता।।

स्वेषु धर्मेष्ववस्थाप्यः प्रजाः सर्वा महीपतिः।
धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत्।।

परिनिष्ठितकार्यस्तु नृपतिः परिपालनात्।
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते।।

वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम्।
दानमध्ययनं यज्ञः शौचेन धनसंचयः।।

पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह।
विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत्।।

रक्षया स हि तेषां वै महत्सुखमवाप्नुयात्।
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्।।

ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्।।

पण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत्।
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे।।

सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः।।

न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन।।

शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत।
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्।।

तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते।
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात्।।

शूद्र एतान्परिचरेत्रीन्वर्णाननसूयकः।
संचयांश्च न कुर्वीत जातु शूद्रः कथंचन।।

पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः।
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः।।

तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्।
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते।।

छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च।
यातयामानि देयानि शूद्राय परिचारिणे।।

अधार्याणि विशीर्णानि वसनानि द्विजातिभिः।
शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत्।।

यंच कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत्।
कल्प्यां तेन तु तस्याहुर्वृत्तिं धर्मविदो जनाः।।

देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ।
शूद्रेण तु न हातव्यो भर्ता कस्यांचिदापदि।।

अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये।
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो हि सः।।

उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्येव भारत।
स्वाहाकारवषट्‌कारौ मन्त्रः शूद्रे न विद्यते।।

तस्माच्छूद्रः पाकयज्ञैयजेताव्रतवान्स्वयम्।
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम्।।

शूद्रः पैजवनो नाम सहस्राणां शतं ददौ।
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम्।।

यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत।।

अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते।
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत्।
दैवतं हि परं विप्राः स्वेनस्वेन परस्परम्।।

अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहिताः।
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः।।

देवानामपि ये देवा यद्ब्रूयुस्ते परं हितम्।
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया।।

ऋग्यजुः सामवित्पूज्यो नित्यं स्याद्देववद्द्विजः।
अनृग्यजुरसामा च प्राजापत्य उपद्रवः।
यज्ञो मनीषया तात सर्ववर्णेषु भारत।।

नास्य यज्ञकृतो देवा ईहन्ते नेतरे जनाः।
ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते।।

स्वं दैवतं ब्राह्मणः स्वेन नित्यं
परान्वर्णानयजन्नैवमासीत्।
अधरो वितानस्त्वथ तत्र सृष्टो
न ब्राह्मणस्त्रिषु वर्णेषु राजन्।।

तस्माद्वर्णा ऋजवो ज्ञातिवर्णाः
संसृज्यन्ते तस्य विकार एव।
एकं साम यजुरेकमृगेका
विप्रश्वैको निश्चये तेषु सृष्टः।।

अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः।
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम्।।

उदितेऽनुदिते वाऽपि श्रद्दधानो जितेन्द्रियः।
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत्।।

यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम्।
बहूनि यज्ञरूपाणि नानाकर्मफलानि च।।

तानि यः संप्रजानाति ज्ञाननिश्चयनिश्चितः।
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति।।

स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः।
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम्।।

ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम्।
सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः।।

न हि यज्ञसमं किंचित्रिषु लोकेषु विद्यते।
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता।
श्रद्धापवित्रमाश्रित्य यथाशक्ति यथेच्छया।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनषष्टितमोऽध्यायः।। 59।।