शांतिपर्व
अध्यायः ६
वैशंपायन उवाच।
एतावदुक्त्वा देवर्षिर्विरराम स नारदः।
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः।।
तं दीनमनसं वीरमधोवदनमातुरम्।
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा।।
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना।
अब्रवीन्मधुराभाषा काले वचनमर्थवत्।।
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि।
जहि शोकं महाप्राज्ञ श्रृणु चेदं वचो मम।।
याचितः स मया पूर्वं भ्राता ज्ञापयितुं तव।
भास्करेण च देवेन पित्रा धर्मभृतां वरः।।
यद्वाच्यं हितकामेन सुहृदां भूतिमिच्छता।
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः।।
न चैनमशकद्भानुरहं वा स्नेहकारणैः।
पुरा प्रत्यनुनेतुं वा नेतुं वाऽप्येकतां त्वया।।
ततः कालपरीतः स वैरस्योद्धरणे रतः।
प्रतीपकारी युष्माकमिति चोपेक्षितो मया।।
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः।
उवाच वाक्यं धर्मात्मा शोकव्याकुललोचनः।।
भवत्या गूढमन्त्रत्वाद्वञ्चिताः स्म तदा भृशम्।।
शशाप च महातेजाः सर्वलोकेषु योषितः।
न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः।।
स राजा पुत्रपौत्राणां संबन्धिसुहृदां तदा।
स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः।।
ततः शोकपरीतात्मा सधूम इव पावकः।
निर्वेदमगमद्धीमान्राज्ये संतापपीडितः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षष्ठोऽध्यायः।। 6।।