शांतिपर्व

अध्यायः ५

Santi Parva (Sanskrit) · Adhyaya 5
अक्षर का आकार

नारद उवाच।

आदित्कृतबलं कर्णं दृष्ट्वा राजा स मागधः।
आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः।।

तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः।
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः।।

क्षीणबाणौ विधनुषौ भग्नखङ्गौ महीं गतौ।
बाहुभिः समसज्जेतामुभावतिबलान्वितौ।।

[बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः।]
विभेदं संधिं देहस्य जरया श्लेषितस्य हि।।

स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः।
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य दूरतः।।

प्रीत्या ददौ स कर्णाय मालिनीं नगरीमनु।
अङ्गेषु नरशार्दूल स राजाऽऽसीत्सपत्नजित्।।

पालयामास वर्णांस्तु कर्णः परबलार्दनः।
दुर्योधनस्यानुमते तवापि विदितं तथा।।

एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ।
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले।।

स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते।
सहजं कवचं चापि मोहितो देवमायया।।

विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा।
निहतो विजयेनाजौ वासुदेवस्य पश्यतः।।

ब्राह्मणस्यापि शापेन रामस्य च महात्मनः।
कुन्त्याश्च वरदानेन मायया च शतक्रतोः।।

भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात्।
शल्यतेजोवधाच्चापि वासुदेवनयेन च।

रुद्रस्य देवराजस्य यमस्य वरुणस्य च।
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः।।

अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना।
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः।।

एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः।
न शोच्यः पुरुषव्याघ्र युद्धे हि निधनं गतः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चमोऽध्यायः।। 5।।