शांतिपर्व
अध्यायः ७
वैशंपायन उवाच।
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः।
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्।।
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः।
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः।।
युधिष्ठिर उवाच।
यद्भैक्ष्यमाचरिष्याम वृष्ण्यन्धकपुरे वयम्।
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम्।।
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल।
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः।।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्।
धिगस्तु चार्थं येनेमामापदं गमिता वयम्।।
साधु क्षमा दमः शौचमविरोधो विमत्सरः।
अहिंसा सत्यवचनं नित्यानि वनचारिणाम्।।
वयं तु लोभान्मोहाच्च दम्भं मानं च संश्रिताः।
इमामवस्थां संप्राप्ता राज्यक्लेशबुभुक्षया।।
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत्।
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः।।
ते वयं पृथिवीहेतोरवध्यान्पृथिवीतले।
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः।।
आमिषे गृध्यमानानामशुभं वै शुनामिव।
आमिषं चैव नो नष्टमामिषस्य च भोजिनाम्।।
न पृथिव्या सकलया न सुवर्णस्य राशिभिः।
न गजाश्वेन सर्वेण ते त्याज्या य इमे हताः।।
काममन्युपरीतास्ते क्रोधामर्षसमन्विताः।
मृत्युयानं समारुह्य गता वैवस्वतक्षयम्।।
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान्।
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया।।
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः।
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति।।
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि।
संभाघिता जातबला विदध्युर्यदि नः सुखम्।
इह चामुत्र चैवेति कृपणाः फलहेतवः।।
तासामयं समुद्योगो निर्वृत्तः केवलोऽफलः।
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः।।
अभुक्त्वा पार्थिवान्भोगानृणान्यनपहाय च।
पितृभ्यो देवताभ्यश्च गता वैयस्वतक्षयम्।।
यदैषामम्ब पितरौ जातकर्मकराविह।
संजातबालरूपेषु तदैव निहता नृषाः।।
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः।
न ते जयफलं किंचिद्भोक्तारो जातु कर्हिचित्।।
पाञ्चालानां कुरूणां च हता एव हि ये हताः।
न सकामा वयं ते च न चास्माभिर्न तैर्जितम्।।
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम्।
नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम्।
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः।।
न च धर्म्यानिमाँल्लोकान्प्रपद्याम स्वकर्मभिः।
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः।
धृतराष्ट्रस्य पुत्रेण निकृतिप्रीतिसंयुताः।।
सदैव निकृतिप्रज्ञो द्वेष्टा विद्वेषजीवनः।
मिथ्यावृत्तश्च सततमस्मास्वनपराधिषु।।
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः।
धृतराष्ट्रश्च नृपतिः सौबलेन निवेदितः।।
तं पिता पुत्रगृध्नुत्वादनुमेनेऽनये स्थितम्।
अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा।।
असंशयं त्वयं राजा यथैवाहं तथा गतः।
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्।।
यशसः पतितो दीप्ताद्धातयित्वा सहोदरान्।
इमौ हि वृद्धौ शोकाग्नौ प्रक्षिप्य स सुयोधनः।
अस्मत्प्रद्वेषसंतप्तः पापबुद्धिः सदैव ह।।
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने।
यथाऽसाववदद्वाक्यं युयुत्सुः कृष्णसन्निधौ।।
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः।
प्रदहन्तो दिशः सर्वा भास्वरा इव तेजसा।।
सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः।
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम्।।
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यतां ।।
कुलस्यास्यान्तकरणं दुर्मतिं पापपूरुषम्।
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति।।
हताः शूराः कृतं पापं विषयोऽसौ विनाशितः।
हत्वा नो विगतो मन्युः शोको मां दारयत्ययम्।।
धनञ्जय कृतं पापं कल्याणेनोपहन्यते।
[ख्यापनेनानुतापेन दानेन तपसाऽपि वा।
निवृत्त्या तीर्थगमनाच्छुतिस्मृतिजपेन वा।।]
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः।
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यतः।
प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा।।
स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः।
वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप।।
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः।
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन।।
मया निसृष्टं पापं हि परिग्रहमभीप्सता।
जन्मक्षयनिमित्तं च प्राप्तुं शक्यमिति श्रुतिः।।
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं सुखानि च।
गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित्।
प्रशासध्वमिमामुर्वी क्षेमां निहतकण्टकाम्।
न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन।।
एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः।
उपारमत्ततः पार्थः कनीयान्प्रत्यभाषत।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तमोऽध्यायः।। 7।।