शांतिपर्व

अध्यायः ५८

Santi Parva (Sanskrit) · Adhyaya 58
अक्षर का आकार

वैशंपायन उवाच।

ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः।
ययुस्ते नगराकारैः रथैः पाण्डवयादवाः।।

प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघम्।
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्।।

व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः।
निषेदुरभितो भीष्मं परिवार्य समन्ततः।।

ततो राजा महातेजा धर्मपुत्रो युधिष्ठिरः।
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि।।

युधिष्ठिर उवाच।

य एष राजन्राजेति शब्दश्चरति भारत।
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह।।

तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः।
तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः।।

तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च।
नेःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्।।

समानजन्ममरणः समः सर्वैर्गुणैर्नृणाम्।
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति।।

कथमेको महीं कृत्स्नां शूरवीरार्यसंकुलम्।
रक्षत्यपि च लोकस्य प्रसादमभिवाञ्छति।।

एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति।
व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः।।

एतदिच्छाम्यहं श्रोतुं त्वत्तो हि भरतर्षभ।
कृत्स्नं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर।।

नैतत्कारणमत्यल्पं भविष्यति विशांपते।
यदेकस्मिञ्जगत्सर्वं देववद्याति सन्नतिम्।।

भीष्म उवाच।

नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः।
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्।।

नैव राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्।।

पाल्यमानास्तथाऽन्योन्यं नरा धर्मेण भारत।
दैन्यं परमुपाजग्मुस्ततस्तान्मोह आविशत्।।

ते मोहवशमापन्ना मनुजा मनुजर्षभ।
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्।।

नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा।
लोभस्य वशमापन्नाः सर्वे भरतसत्तम।।

अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः।
कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो।।

तांस्तु कामवशं प्राप्तान्रागो नामाभिसंस्पृशत्।
रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर।।

अगम्यागमनं चैव वाच्यावाच्यं तथैव च।
भक्ष्याभक्ष्यं चराजेन्द्र दोषादोषं च नात्यजन्।।

विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह।
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत्।।

नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन्।
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः।।

प्रपद्य भगवन्तं ते देवं लोकपितामहम्।
ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः।।

भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम्।
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत्।।

ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्चर।
ततस्तु समतां याता मर्त्यैस्त्रिभुवनेश्वराः।।

अधोर्भिवर्षास्तु वयं भौमास्तूर्ध्वप्रवर्षिणः।
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम्।।

अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह।
त्वत्प्रसादात्समुत्थोसौ प्रभावो नो भवत्वयम्।।

तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः।
श्रेयोऽहं चिन्तयिष्यामिव्येतु वो भीः सुरोत्तमाः।।

ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्।
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः।।

त्रिवर्ग इति विख्यातो गण एव स्वयंभुवा।
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः।।

मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः।
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः।।

आत्मादेशश्च कालश्चाप्युपायाः कृत्यमेव च।
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः।।

त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ।
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः।।

अमात्यलिप्सा प्रणिधी राजपुत्रस्य लक्षणम्।
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः।।

सामभेदः प्रदानं च ततो दण्डश्च पार्थिव।
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता।।

मन्त्रश्च वर्णितः कृत्स्नो मन्त्रभेदार्थ एव च।
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम्।।

संधिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः।
भयसत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम्।।

यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः।
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह।।

आसुरश्चैव विजयः कार्त्स्न्येन परिवर्णितः।
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्।।

प्रकाशश्चाप्रकाशश्च दण्‍डोऽथ परिशब्दितः।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः।।

रथा नागा हयाश्चैव पादाताश्चैव पाण्डव।
विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमः।
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु।।

जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः।
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः।।

`क्रीडापूर्वे रणे द्यूते विस्रम्भणसमन्वितम्।
उक्तं कैतव्यमित्येतदुपायो नवमो बुधैः।।

उपेक्षा सर्वकार्येषु कर्मणां करणेषु च।
अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया।।

इन्द्रजालादिका माया वाजीवनकुशीलवैः।
सुनिमित्तैदुर्निमित्तैरुत्पातैश्च समन्वितम्।।

डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते।
शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका।।'

अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः।
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह।
आत्मरक्षणमाश्वासः स्पर्शानां चान्ववेक्षणम्।।

कल्पना विविधाश्चापि नृनागरथवाजिनाम्।
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्।।

उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम्।
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ।।

बलव्यसनयुक्तं च तथैव बलहर्षणम्।
पीडा चापदकालश्च भयकालश्च पाण्डव।।

तथाख्यातविधानं च योगः संचार एव च।
चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम्।।

अग्निदैर्गरदैश्चेव प्रतिरूपककारकैः।
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च।।

दूषणेन च नागानामातङ्कजननेन च।
आराधनेन भक्तस्य पत्युश्चोपग्रहेण च।।

सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमीक्षणम्।
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम्।।

अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम्।
अवमर्दः प्रतीघातस्तथैव च बलीयसाम्।।

व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्।
श्रमो व्यायामयोगश्च योगद्रव्यस्य सञ्चयः।।

अभृतानां च भरणं भृतानां चान्ववेक्षणम्।
अन्तकाले प्रदानं च व्यसने चाप्रसङ्गिता।।

तथा राजगुणाश्चैव सेनापतिगुणाश्च ह।
करणस्य च कर्तुश्च गुणदोषास्तथैव च।।

दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुवर्तिनाम्।
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्।।

अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम्।
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा।।

विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुकम्।
चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम्।।

क्रोधजानि ततोग्राणि कामजानि तथैव च।
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह।।

मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ।
कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा।।

वाक्पारुष्यं तथोग्रत्व दण्डपारुष्यमेव च।
आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च।।

यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः।
अवमर्दः प्रतीघातः केतनानां च भञ्जनम्।।

चैत्यद्रुमावमर्दश्च रोधः कर्मान्तनाशनम्।
अपस्करोऽथ वमनं तथोपास्या च वर्णिता।।

पणवानकशङ्खानां भेरीणां च युधिष्ठिर।
उपार्जनं च द्रव्याणां परमर्म च तानि षट्।।

लब्धस्य च प्रशमनं सतां चैवाभिपूजनम्।
विद्वद्भिरेकीभावश्च जपहोमविधिज्ञता।।

मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया।
आहारयोजनं चैव नित्यमास्तिक्यमेव च।।

एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः।
उत्तमानां समाजानां क्रियाः केतनजास्तथा।।

प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ।
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्।।

अदण्ड्यत्वं च विप्राणां युक्त्या दण्‍डनिपातनम्।
अनुजीवि स्वजातिभ्यो गुणेभ्यश्च समुद्भवः।।

रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम्।
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका।।

द्विसप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा।
देशजातिकुलानां च धर्माः समनुवर्णिताः।।

धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः।
उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिणः।।

मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः।
दूषणं स्रोतसां चैव वर्णितं च स्थिराम्भसाम्।।

यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः।
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽभिवर्णितम्।।

एतत्कृत्वा सुभं शास्त्रं ततः स भगवान्प्रभुः।
देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान्।।

उपकाराय लोकस्य त्रिवर्गस्थापनाय च।
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाषिता।।

दण्डेन सहिता ह्येषा लोकरक्षणकारिका।
निग्रहानुग्रहरता लोकाननुचरिष्यति।।

दण्डेन नीयते चेदं दण्डं नयति वा पुनः।
दण्डनीतिरितिख्याता त्रीँल्लोकानवपत्स्यते।।

पाङ्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु।
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः।।

भीष्म उवाच।

ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः।
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः।।

अनादिनिधनो देवश्चैतन्यादिसमन्वितः।
ज्ञानानि च वशे यस्य तारकादीन्यशेषतः।।

अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम्।
तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः।।

अरुदत्सस्वनं घोरं जगतः प्रभुरव्ययः।
जायमानः पिता पुत्रे पुत्रः पितरि चैव हि।।

बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम्।
यस्मिन्हिरण्मयो हंसः शकुनिः समपद्यत।।

कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः।
स देवः सर्वभूतानां महादेवः सनातनः।
असंख्यातसहस्राणां रुद्राणां स्थानमव्ययम्।।

युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः।
संचिक्षेप ततः शास्त्रं महास्त्रं ब्रह्मणा कृतम्।।

वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत।
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः।।

मघवानपि तच्छास्त्रं देवात्प्राप्य महेश्वरात्।
प्रजानां हितमन्विच्छन्संचिक्षेप पुरंदरः।।

सहस्त्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम्।
अध्यायानां सहस्त्रैस्तु त्रिभिरेव बृहस्पतिः।
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं यदुच्यते।।

अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत्।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः।।

एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः।
संक्षिप्तमायुर्विज्ञाय लोकानां ह्रासि पाण्डव।।

अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम्।
एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्य वै तं समादिश।।

ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः।
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम्।।

विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत।
न्यासायैवाभवद्वुद्धिः प्रणीता तस्य पाण्डव।।

कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि मर्त्याधिकोऽभवत्।
कर्दमस्तस्य तु सुतः सोऽप्यतप्यन्महत्तपः।।

प्रजापतेः कर्दमस्य त्वनङ्गो नाम वीर्यवान्।
प्रजा रक्षयिता साधुर्दण्डनीतिविशारदः।।

अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै।
प्रतिपेदे महाराज्यमथेन्द्रियवशोऽभवत्।।

`प्राप्य नारीं महाभागां रूपिणीं काममोहितः।
सौभाग्येन च संपन्नां गुणैश्चानुत्तमां सतीम्'।।

मृत्योस्तु दुहिता राजन्सुनीथा नाम नामतः।
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत्।।

तं प्रजासु विधर्माणं रागद्वेषवशानुगम्।
मन्त्रपूतैः कुशैर्जघ्नुर्ऋषयो ब्रह्मवादिनः।।

ममन्थुर्दक्षिणं चोरुमृषयस्तस्य भारत।
ततोऽस्य विकृतो जज्ञे ह्रस्वकः पुरुषोऽशुचिः।।

दग्धस्थूणाप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः।
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः।।

तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः।
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः।।

भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः।
ततः पुरुष उत्पन्नो रुपेणेन्द्र इवापरः।।

कवची बद्धनिस्त्रिंशः सशरः सशरासनः।
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः।।

तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम्।
ततस्तु प्राञ्जलिर्वैन्यो महर्षीस्तानुवाच ह।।

सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धरर्मार्थदर्शिनी।
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत।।

यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम्।
तदहं वः करिष्यामि नात्र कार्या विचारणा।।

तमूचुस्तत्र देवास्ते ते चैव परमर्षयः।
नियतो यत्र धर्मो वै तमशङ्कः समाचर।।

प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु।
कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः।।

यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः।
निग्राह्यस्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता।।

प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा।
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत्।।

यश्चात्र धर्म इत्युक्तो दण्डनीतिव्यपाश्रयः।
तमशङ्कः करिष्यामि स्ववशो न कदाचन।।

अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो।
लोकं च संकरात्कृत्स्नं त्राताऽस्मीति परंतप।।

वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान्।
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः।।

एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः।
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः।।

मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा।
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत्।।

आत्मनाऽष्टम इत्येव श्रुतिरेषां परा नृषु।
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ।।

तयो प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान्।
अनूपदेशं सूताय मगधं मागधाय च।।

समतां वसुधायाश्च स सम्यगुदपादयत्।
वैषम्यं हि परं भूमेरिति नः परमा श्रुतिः।।

मन्वन्तरेषु सर्वेषु विषमा जायते मही।
उज्जहार ततो वैन्यः शिलाजालान्समन्ततः।।

धनुष्कोट्या महाराज तेन शैला विमर्दिताः।
स विष्णुना च देवेन शक्रेण विबुधैः सह।
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः।।

तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्‍डव।
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः।।

शक्रश्च धनमक्षय्यं प्रादात्तस्मै युधिष्ठिर।
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः।।

यक्षराक्षसभर्ता च भगवान्नरवाहनः।
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम्।।

हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा।
प्रादुर्बभूवुर्वैन्यस्य चिन्तयानस्य पाण्डव।।

न जरा न च दुर्भिक्षं नाधयो व्याधयः कुतः।
सरीसृपेभ्यः स्तेनेभ्यो न चान्येभ्यः कदाचन।
भयमासीत्ततस्तस्य पृथिवी सस्यमालिनी।।

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्।।

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च।
यक्षराक्षसनागानामीप्सितं यस्य यस्य यत्।।

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना।
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते।।

ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते।
प्रथिता धर्मतश्चेयं पृथिवी साधुभिः स्मृता।।

स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः।
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति भारत।।

ततः स भगवान्विष्णुराविवेश च पार्थिवम्।
देववन्नरदेवानां नमतीदं जगत्ततः।।

दण्डनीत्या च सततं रक्षितारं नरेश्वरम्।
नाधर्षयेत्तथा कश्चिच्चारनिष्पन्ददर्शनात्।।

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते।
आत्मना करणैश्चैव समस्येह महीक्षितः।।

को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात्।।

विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा।
श्रीः संभूता ततस्तस्मिन्देवी धर्मस्य पाण्डव।।

श्रियः सकाशादर्थश्च जातो धर्मस्य पाण्डव।
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता।।

सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम्।
पार्थिवो जायते तात दण्डनीतिविशारदः।।

माहात्म्येन च संयुक्तो वैष्णवेन नरो भुवि।
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति।।

स्थापितं च ततो देवैर्न कश्चिदतिवर्तते।
तिष्ठत्येकस्य च वशे तं चैवानुविधीयते।।

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते।
तुल्यस्यैकस्य येनायं लोको वचसि तिष्ठति।।

योऽस्य वै मुखमद्राक्षीत्सोऽस्य सर्वो वशानुगः।
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति।।

महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा।
नयश्चारश्च विपुलो येन सर्वमिदं ततम्।।

आगमश्च पुराणानां महर्षीणां च संभवः।
तीर्थवंशश्च वंशश्च क्षत्रियाणां युधिष्ठिर।।

सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च।
चातुर्वर्ण्यं तथैवात्र चातुर्विद्यं च कीर्तिम्।।

इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः।
तपो ज्ञानमर्हिसा च सत्यं दानममत्सरः।।

वृद्धोपसेवा दानं च शौचमुत्थानमेव च।
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम्।।

भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम्।
तस्मिन्पैतामहे शास्त्रे पाण्डवेय न संशयः।।

ततो जगति राजेन्द्र सततं शब्दितं बुधैः।
देवाश्च नरदेवाश्च तुल्या इति विशांपते।।

एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु।
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टपञ्चाशोऽध्यायः।। 58।।