शांतिपर्व
अध्यायः ५७
भीष्म उवाच।
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर।
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति।।
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः।
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः।।
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः।
राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः।।
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर।
राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु।।
चारश्च प्रणिधिश्चैव काले दानममत्सरः।
युक्त्या दानं न चादानमयोगेन युधिष्ठिर।।
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्।
अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम्।।
केतनानां च जीर्णानामवेक्षा चैव सीदताम्।
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः।।
साधूनामपरित्यागः कुलीनानां च धारणम्।
निचयश्च निचेयानां सेवा बुद्धिमतामपि।।
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्।
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्।।
पुरगुप्तिरविश्वासः पौरसंघातभेदनम्।
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्।।
उपजापश्च भृत्यानामात्मनः पुरदर्शनम्।
अविश्वासः स्वयं चैव परस्याश्वासनं तथा।।
नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च।
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्।।
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत।
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे।।
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च।।
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति।
उत्थानवीरान्वाग्वीरा रमयन्त उपासते।।
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः।
प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः।।
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च।।
एकाङ्गेनापि संभूतः शत्रुर्दुर्गमुपाश्रितः।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः।।
राज्ञो रहस्यं यद्वाक्यं जयार्थे लोकसंग्रहः।
हृदि यच्चास्य जिह्नं स्यात्कारणार्थं च यद्भवेत्।।
यच्चास्य कार्यं वृजिनं मार्दवेनैव धार्यते।
रञ्जनार्थं च लोकस्य धर्मिष्ठामाचरेत्क्रियाम्।।
राज्यं हि सुमहत्तत्र दुर्धार्यमकृतात्मभिः।
न शक्यं मृदुना वोदुमाघातस्थानमुल्वणम्।।
राज्यं सर्वामिषं नित्यमार्जवेनैव धार्यते।
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर।।
यद्यप्यस्य विपक्तिः स्याद्रक्षमाणस्य वै प्रजाः।
सोप्यस्य विपुलो धर्म एवं वृत्ता हि भूमिपाः।।
एष ते राजधर्माणां लेशः समनुवर्णितः।
भूयस्ते यत्र संदेहस्तद्ब्रूहि कुरुसत्तम।।
वैशंपायन उवाच।
ततो व्यासश्च भगवान्देवस्थानोऽश्म एव च।
वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा।।
साधुसाध्विति संहृष्टा घुष्यमाणैरिवाननैः।
अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम्।।
ततो दीनमना भीष्ममुवाच कुरुनन्दनः।
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्।।
श्व इदानीं स्वसंदेहं प्रवक्ष्यामि पितामह।
उपैति सविता ह्यस्तं रसमापीय पार्थिवम्।।
ततो द्विजातीनभिवाद्य केशवः।
कृपश्च ते चैव युधिष्ठिरादयः।
प्रदक्षिणीकृत्य महानदीसुतं
ततो रथानारुरुहुर्मुदान्विताः।।
दृषद्वतीं चाप्यवगाह्य सुव्रताः।
कृतोदकार्थाः कृतजप्यमङ्गलाः।
उपास्य संध्यां विधिवत्परंतपा
स्ततः पुरं ते विविशुर्गजाह्वयम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तपञ्चाशोऽध्यायः।। 57।।