शांतिपर्व

अध्यायः ५२

Santi Parva (Sanskrit) · Adhyaya 52
अक्षर का आकार

वैशंपायन उवाच।

ततः प्रविश्य भवनं प्रविश्ये मधुसूदनः।
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत।।

स ध्यानपथमाविश्य सर्वज्ञानानि माधवः।
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम्।।

सूताः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः।
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम्।।

पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः।
शङ्खानथ मृदङ्गांश्च प्रवाद्यन्ति सहस्रशः।।

वीणापणववेणूनां स्वनश्चातिमनोरमः।
सहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनि।।

ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः।
उच्चेरुर्मधुरा वाचो गीतवादित्रबृंहिताः।।

तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः।
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान्।।

ततः सहस्रं विप्राणां चतुर्वेदविदां तथा।
गवां सहस्रेणैकैकं वाचयामास माधवः।।

मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च।
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत्।।

गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्।
अपि सञ्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः।।

ततः कृष्णस्य वचनात्सात्यंकिस्त्वरितो ययौ।
उपगम्य च राजानं युधिष्ठिरमभाषत।।

युक्तो रथवरो राजन्वासुदेवस्य धीमतः।
समीपमापगेयस्य प्रयास्यति जनार्दनः।।

भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते।
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति।।

एवमुक्तः प्रत्युवाच धर्मपुत्रो युधिष्ठिरः।
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते।।

न सैनिकैश्च यातव्यं यास्यामो वयमेव हि।
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः।।

अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय।
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति।
अतो नेच्छामि कौन्तेय पृथग्जनसमागमम्।।

वैशंपायन उवाच।

स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनञ्जयः।
युक्तं रथवरं तस्मा आचचक्षे नरर्षभः।।

ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि।
भूतानीव समस्तानि ययुः कृष्णनिवेशनम्।।

आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु।
शैनेयसहितो धीमान्रथमेवान्वपद्यत।।

रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्।
मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः।।

बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेवच।
दारुकश्चोदयामास वासुदेवस्य वाजिनः।।

ते हया वासुदेवस्य दारुकेण प्रचोदिताः।
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा।।

ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः।
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन्।।

ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः।
आस्ते महर्षिभिः सार्ध्रं ब्रह्मा देवगणैर्यथा।।

ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः।
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च।
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान्।।

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः।
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः।।

शरतल्पे शयानं तमादित्यं पतितं यथा।
स ददर्श महाबाहुं भयाच्चागतसाध्वसः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्विपञ्चाशोऽध्यायः।। 52।।