शांतिपर्व
अध्यायः ५३
जनमेजय उवाच।
धर्मात्मनि महावीर्ये सत्यसन्धे जितात्मनि।
देवव्रते महाभागे शरतल्पगतेऽच्युते।।
शयाने वीरशयने भीष्मे शन्तनुनन्दने।
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपासिते।।
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे।
हतेषु सर्वसैन्येषु तन्मे शंस महामुने।।
वैशंपायन उवाच।
शरतल्पगते भीष्मे कौरवाणां पितामहे।
आजग्मुर्ऋषयः सिद्धा नारदप्रमुखा नृप।।
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः।
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा।।
तेऽभिगम्य महात्मानो भरतानां पितामहम्।
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा।।
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः।
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान्।।
प्राप्तकालं समाचक्षे भीष्मोऽयमनुयुज्यताम्।
अस्तमेति हि गाङ्गेयो भानुमानिव भारत।।
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्यनुपृच्छत।
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम्।।
एष वृद्धः पराँल्लोकान्संप्राप्नोति तनुं त्यजन्।
तं शीघ्रमनुयुञ्जीध्वं संशयान्मनसि स्थितान्।।
वैशंपायन उवाच।
एवमुक्ते नारदेन भीष्ममीयुर्नराधिपाः।
प्रष्टुं चाशक्रुवन्तस्ते वीक्षांचक्रुः परस्परम्।।
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः।
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम्।।
प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन।
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः।।
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा।
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः।।
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम।
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव।।
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ।
न ग्लायते च हृदयं न च ते व्याकुलं मनः।।
भीष्म उवाच।
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा।
तव प्रसादाद्वार्ष्णेय सद्यो व्यपगतानि मे।।
यच्च भूतं भविष्यच्च भवच्च परमद्युते।
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम्।।
वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताश्च ये।
तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत।।
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते।
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन।।
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः।
राजधर्मांश्च सकलानवगच्छामि केशव।।
यच्च यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन।
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत्।।
युवेवास्मि समावृत्तस्त्वदनुध्यानबृंहितः।
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन।।
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम्।
किं ते विवक्षितं चात्र तदाशु वद माधव।।
वासुदेव उवाच।
यशसः श्रेयसश्चैव मूल मां विद्धि कौरव।
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः।।
शीतांशुश्चन्द्र इत्युक्ते लोके को विस्मयिष्यति।
तथैव यशसा पूर्णे मयि को विस्मयिष्यति।।
आधेयं तु मया भूयो यशस्तव महाद्युते।
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता।।
यावद्धि पृथिवीपाल पृथ्वीयं स्थास्यति ध्रुवा।
तावत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति।।
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते।
वेदप्रवाद इव ते स्थास्यते वसुधातले।।
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना।
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति।।
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते।
दत्ता यशो विप्रथयेत्कथं भूयस्तवेति ह।।
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि।
तावत्तस्याक्षया कीर्तिर्भवतीति विनिश्चिता।।
राजानो हतशिष्टास्त्वां राजन्नभित आसते।
धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत।।
भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः।
कुशलो राजधर्माणां सर्वेषामपराश्च ये।।
जन्मप्रभृति ते किंचिद्वॄजिनं न ददर्श ह।
ज्ञातारं सर्वधर्माणां त्वां विदुः सर्वपार्थिवाः।।
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम्।
ऋषयश्चैव देवाश्च त्वया नित्यमुपासिताः।।
तस्माद्वक्तव्यमेवेदं त्वयाऽवश्यमशेषतः।
धर्मं शुश्रूषमाणेभ्यः पृष्टेन न सता पुनः।।
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः।
अप्रतिब्रुवतः कष्टो दोषो हि भविता प्रभो।।
तस्मात्पुत्रैश्च पौत्रेश्च धर्मान्पृष्टान्सनातनान्।
विद्वञ्जिज्ञासमानेभ्यः प्रब्रूहि भरतर्षभ।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रिपञ्चाशोऽध्यायः।। 53।।