शांतिपर्व

अध्यायः ५१

Santi Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

वैशंपायन उवाच।

ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम्।
श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः।।

लोकनाथ महाबाहो शिव नारायणाच्युत।
तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः।।

किंचाहमभिधास्यामि वाक्पते तव सन्निधौ।
यदा वाचोगतं सर्वं तव वाचि समाहितम्।।

यच्च किंचित्कृतं लोके कर्तव्यं क्रियते च यत्।
त्वत्तस्तन्निः सृतं देव लोके बुद्धिमतो हिते।।

कथयेद्देवलोकं यो देवराजसमीपतः।
धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात्तवाग्रतः।।

शराभितापाद्व्यथितं मनो मे मधुसूदन।
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति।।

न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम्।
पीड्यमानस्य गोविन्द विपानलसमैः शरैः।।

बलं मे प्रजहातीव प्राणाः सत्वरयन्ति च।
मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम्।।

दौर्बल्यात्सज्जते वाङ्भे स कथं वक्तुमुत्सहे।
साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन।।

तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत।।
त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन्।।

न दिशः संप्रजानामि नाकाशं न च मेदिनीम्।
केवलं तव वीर्येण तिष्ठामि मधुसूदन।।

स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम्।
तद्ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः।।

कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि।
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते।।

वासुदेव उवाच।

उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे।
महावीर्ये महासत्वे स्थिरे सर्वार्थदर्शिनि।।

यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति।
गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो।।

न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा।
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत।।

ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ।
न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति।।

सत्वस्थं च मनो नित्यं तव भीष्म भविष्यति।
रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट्।।

यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च।
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति।।

इमं च राजशार्दूल भूतग्रामं चतुर्विधम्।
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम।।

चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा।
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले।।

वैशंपायन उवाच।

ततस्ते व्याससहिताः सर्व एव महर्षयः।
ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन्।।

ततः सर्वार्तवं दिव्यं पुष्पवर्षं न भस्तलात्।
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः।।

वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः।
न चाहितमनिष्टं च किंचित्तत्र व्यदृश्यत।।

ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः।
शान्तायां दिशिशन्ताश्च प्रावदन्मृगपक्षिणः।।

ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः।
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत।।

ततो महर्षयः सर्वे समुत्थाय जनार्दनम्।
भीष्ममामन्त्रयांचक्रू राजानं च युधिष्ठिरम्।।

ततः प्रणाममकरोत्केशवः सहपाण्डवः।
सात्यकिः स़ञ्जयश्चैव स च शारद्वतः कृपः।।

ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः।
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः।।

तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा।
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान्।।

ततो रथैः काञ्चनचित्रकूबरै
र्महीधराभैः समदैश्च दन्तिभिः।
हयैः सुपर्णैरिव चाशुगामिभिः
पदातिभिश्चात्तशरासनादिभिः।।

ययौ रथानां पुरतो हि सा चमू
स्तथैव पश्चादतिमात्रसारिणी।
पुरश्च पश्चाच्च यथा महानदी
तमृक्षवन्तं गिरिमेत्य नर्मदा।।

ततः पुरस्ताद्भगवान्निशाकरः।
समुत्थितस्तामभिहर्षयंश्चमूम्।
दिवाकरापीतरसा महौषधीः
पुनः स्वकेनैव गुणेन योजयन्।।

ततः पुरं सुरपुरसंमितद्युति
प्रविश्य ते यदुवृषपाण्डवास्तदा।
यथोचितान्भवनवरान्समाविशन्
श्रमान्विता मृगपतयो गुहा इव।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकपञ्चाशोऽध्यायः।। 51।।