शांतिपर्व
अध्यायः ५०
वैशंपायन उवाच।
श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः।
किंचिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत्।।
भीष्म उवाच।
नमस्ते भगवन्कृष्ण लोकानां प्रभवाप्यय।
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः।।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव।
अपवर्गस्थ भूतानां पञ्चानां परतः स्थित।।
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु।
योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणः।।
मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम।
तेन पश्यामि ते दिव्यान्भावांस्त्रिषु च वर्त्मसु।।
तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम्।
सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः।।
दिवं ते शिरसा व्याप्तं पभ्द्यां देवी वसुंधरा।
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः।।
अतसीपुष्पसंकाशं पीतवाससमच्युतम्।
वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः।।
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम।।
वासुदेव उवाच।
यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ।
ततो मया वपुर्दिव्यं तव राजन्प्रदर्शितम्।।
न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च।
दर्शयाम्यहमात्मानं न चादान्ताय भारत।।
भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः।
दमे तपसि सत्ये च दाने च निरतः शुचिः।।
अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव।
तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः।।
पञ्चाशतं षट् च कुरुप्रवीर
शेषं दिनानां तव जीवितस्य।
ततः शुभैः कर्मफलोदयैस्त्वं
समेष्यसे भीष्म विमुच्य देहम्।।
एते हि देवा वसवो विमाना
न्यास्थाय सर्वे ज्वलिताग्निकल्पाः।
अन्तर्हितास्त्वां प्रतिपालयन्ति
काष्ठां प्रपद्यन्तमुदक्पतङ्गाम्।।
व्यावृत्तमात्रे भगवत्युदीचीं
सूर्ये जगत्कालवशं प्रपन्ने।
गन्तासि लोकान्पुरुषप्रवीर
नावर्तते यानुपलभ्य विद्वान्।।
अमुं च लोकं त्वयि भीष्म याते
ज्ञानानि सर्वाणि पराभविष्यन्।
अतस्तु सर्वे तव सन्निकर्षं
समागता धर्मविवेचनाय।।
तज्ज्ञातिशोकोपहतश्रुताय
सत्याभिसन्धाय युधिष्ठिराय।
प्रब्रूषि धर्मार्थसमाधियुक्तं
सत्यं वचोऽस्यापनुदेच्छुचं यत्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चाशोऽध्यायः।। 50।।