शांतिपर्व

अध्यायः ४७

Santi Parva (Sanskrit) · Adhyaya 47
अक्षर का आकार

वैशंपायन उवाच।

ततः स च हृषीकेशः स च राजा युधिष्ठिरः।
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते।।

रथैस्तैर्नगरप्रख्यैः पताकाध्वजशोभितैः।
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः।।

तेऽवतीर्य कुरुक्षेत्रे केशमढज्जास्थिसंकुले।
देहन्यासः कृंतो यत्र क्षत्रियैस्तैर्महारथैः।।

गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम्।
नरशीर्षकपालैश्च हंसैरिव च सर्वशः।।

चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम्।
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव।।

भूतसङ्घानुचरितं रक्षोगणनिषेवितम्।
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः।।

गच्छन्नेव महाबाहुः सर्वं यादवनन्दनः।
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम्।।

अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः।
येषु संतर्पयामास पितॄन्क्षत्रियशोणितैः।।

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः।
इहेदानीं ततो रामः कर्मणो विरराम ह।।

युधिष्ठिर उवाच।

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा।
रामेणेति यदात्थ त्वमत्र मे संशयो महान्।।

क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव।
कथं भूयः समुत्यत्तिः क्षत्रस्यामितविक्रम।।

महात्मना भगवता रामेण यदुपुङ्गव।
कथमुत्सादित्तं क्षत्रं कथमृद्धिगतं पुनः।।

महता रथयुद्धेन कोटिशः क्षत्रिया हताः।
तथाऽभूच्च मही कीर्णा क्षत्रियैर्वदतां वर।।

किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा।
रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना।।

एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन।
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज।।

वैशंपायन उवाच।

ततो व्रजन्नेव गदाग्रजः प्रभुः
शशंस तस्मै निखिलेन तत्त्वतः।
युधिष्ठिरायाप्रतिमौजसे तदा
यथाऽभवत्क्षत्रियसंकुला मही।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः।। 47।।