शांतिपर्व

अध्यायः ४६

Santi Parva (Sanskrit) · Adhyaya 46
अक्षर का आकार

जनमेजय उवाच।

शरतल्पे शयानस्तु भरतानां पितामहः।
कथमुत्सृष्टवान्देहं कं च योगमधारयत्।।

वैशंपायन उवाच।

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः।।

प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे।
`शुक्लपक्षस्य चाष्टभ्यां माघमासस्य पार्थिव।।

प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे।'
समावेशयदात्मानमात्मत्येव समाहितः।।

विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः।।

व्यासेन देवश्रवसा नारदेन सुरर्षिणा।
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना।।

तथा जैमिनिना चैव पैलेन च महात्मना।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता।।

असितेन वसिष्ठेन कौशिकेन महात्मना।
हारितलोमशाभ्यां च तथाऽऽत्रेयेण धीमता।।

[बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः।
सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः।।

मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः।
पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः।।

काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः।।

धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः।
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः।
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः।।

एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः।
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः।।

भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा।
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः।।

स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम्।
योगेश्वरं पझनाभं विष्णुं जिष्णुं जगत्पतिम्।
`अनादिनिधनं विष्णुमात्मयोनिं सनातनम्।।'

कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः।।
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्।।

भीष्म उवाच।

आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम्।
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः।।

शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम्।
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम्।।

अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः।
एकोऽयं वेद भगवान्धाता नारायणो हरिः।।

नारायणादृषिगणास्तथा सिद्धमहोरगाः।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम्।।

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
यं न जानन्ति को ह्येष कुतो वा भगवानिति।।

`यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः।
यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा।।'

यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव।।

`यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्
वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः।। '

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि।।

हरिं सहस्रशिरसं सहस्रचरणेक्षणम्।
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम्।।

प्राहुर्नारायणं देवं यं विश्वस्य परायणम्।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि।।

चं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु।।

चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम्।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः।।

[यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति।
सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः।। ]

यं देवं देवकी देवी वसुदेवादजीजनत्।
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः।।

यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्।
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि।।

`अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम्।'
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्।।

पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु।
क्षये संकर्षणं प्रोक्तं तमुपास्यमुपास्महे।।

यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम्।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम्।।

ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम्।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः।।

यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः।
प्रयता नित्यमर्चन्ति परमं सुखभेषजम्।।

अनादिनिधनं देवमात्मयोनिं सनातनम्।
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम्।।

अथ भीष्मस्तवराजः।।

हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः।।

शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः।।

`हुताशनमुखैर्देवैर्धार्यते सकलं जगत्।
हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः।। '

महतस्तमसः पारे पुरुषं ह्यतितेजसम्।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः।।

यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे।
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः।।

पादाङ्गं संधिपर्वाणं स्वरव्यञ्जनभूषितम्।
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः।।

[यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहारह।
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः।।]

ऋग्यजुःसामधामानं दशार्धहविराकृतिम्।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः।।

[चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः।।]

यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः।
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः।।

यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः।
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः।।

यश्चिनोति सतां सेतुमृतेनामृतयोनिना।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः।।

यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः।।

[यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः।
उन्मादः सर्वभूतानां तस्मै कामात्मने नमः।।]

यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः।।

यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः।
प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः।।

यं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः।।

अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः।।

यस्याग्रिरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः।।

युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः।।

योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः।
संभक्षयति भूतानि तस्मै घोरात्मने नमः।।

संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः।।

सहस्रशिरसे तस्मै पुरुषायामितात्मने।
चतुःसमुद्रपयसि योगनिद्रात्मने नमः।।

अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम्।
पुष्करं पुष्कराक्षस्य तस्मै पझात्मने नमः।।

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः।।

यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः।।

[यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः।।]

अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः।
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः।।

ब्रह्म वक्तं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः।
पादौ यस्याश्रिताः शूद्रास्तस्मैवर्णात्मने नमः।।

अन्नपानेन्धनमयो रसप्राणविवर्धनः।
यो धारयति भूतानि तस्मै प्राणात्मने नमः।।

[प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः।। ]

विषये वर्तमानानां यं तं वैषयिकैर्गुणैः।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः।।

अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे।
अपारपरिमाणाय तस्मै दिव्यात्मने नमः।।

परः कालात्परो यज्ञात्परः सदसतश्च यः।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः।।

वैद्युतो जाठरश्चैव पावकः शुचिरेव च।
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः।।

रसातलगतः श्रीमार्ननन्तो भगवान्प्रभुः।
जगद्धारयते योऽसौ तस्मै शेषात्मने नमः।।

ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम्।
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः।।

आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्।
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः।।

साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः।
यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः।।

जटिने दण्डिने नित्यं लम्बोदरशरीरिणे।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः।।

[शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने।
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः।।

चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने।
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः।।]

यो जातो वसुदेवेन देवक्यां यदुनन्दनः।
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः।।

शिरःकपालमालाय व्याघ्रचर्मनिवासिने।
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः।।

यो मोहयति भूतानि सर्वपाशानुबन्धनैः।
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः।।

चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम्।
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः।।

पञ्चभूतात्मभूताय भूतादिनिधनाय च।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः।।

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः।।

यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते।
फणासहस्ररचिते तस्मै निद्रात्मने नमः।।

विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि।
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः।।

अव्यक्तं बुद्ध्यहंकारो मनोबुद्धीन्द्रियाणि च।
तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः।।

भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः।
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः।।

यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः।
सूक्ष्मात्सूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः।।

मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः।
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः।।

मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने।
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः।।

वाराहं रूपमास्थाय महीं सवनपर्वताम्।
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः।।

नारसिंहवपुः कृत्वा सर्वलोकभयंकरम्।
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः।।

पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम्।
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः।।

यं न देवा न गन्धर्वा न दैत्या न च दानवाः।
तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः।।]
वामनं रूपमास्थाय बलिं संयम्य मायया।
त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः।।

जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः।
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः।।

त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात्।
जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः।।

[विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः।।]

रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम्।
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः।।

यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः।
रामाय रौहिणेयाय तस्मै भोगात्मने नमः।।

शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे।
वनमालाधरायैव तस्मै कृष्णात्मने नमः।।

वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले।
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः।।

वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः।
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः।।

सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ।
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः।।

दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः।
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः।।

हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः।
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः।।

तारान्वये कालनेमिं हत्वा दानवपुङ्गवम्।
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः।।

यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः।
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः।।

नमोस्तु ते महादेव नमस्ते भक्तवत्सल।
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर।।

अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो।
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम्।।

हिरण्यनाभ यज्ञाङ्गममृतं विश्वतोमुखम्।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।।

येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः।
मङ्गल भगवान्विष्णुर्मङ्गलं मधुसूदनः।।

मङ्गलं पुण्‍डरीकाक्षो मङ्गलं गरुडध्वजः।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव।।

अपवर्गस्थभूतानां पञ्चानां परमास्थित।
नमस्ते त्रिषु लोकेषु वमस्ते परतस्त्रिषु।।

नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम्।
नमस्ते भगवन्विष्णो त्येकानां प्रभवाव्यय।।

त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः।
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु।।

तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम्।
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः।।

[दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः।
सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः।।]

व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो।
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम्।।

अतसीपुष्पसंकाशं पीतवाससमच्युतम्।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्।।

[एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय।।

कृष्णव्रताः कृष्णमनुस्मरन्तो
रात्रौ च कृष्णं पुनरुत्थिता ये।
ते कृष्णदेहाः प्रविशन्ति कृष्ण
माज्यं यथा मन्त्रहुतं हुताशे।।

नमो नरकसंत्रासरक्षामण्डलकारिणे।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे।।

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः।।

प्राणकान्तारपाथेयं संसारोच्छेदभेषजम्।
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम्।।]

नारायणपरं ब्रह्म नारायणपरं तपः।
नारायणपरं सत्यं नारायणपरं परम्।।

यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः।
तथा विष्णुमयं सर्वं पाप्मा ने नश्यतां तथा।।

तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः।।

त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम।।

इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः।।

वैशंपायन उवाच।

एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा।।

तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः।
भीष्मं वाग्भिर्वाष्पगलास्तमानर्चुर्महाद्युतिम्।।

तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम्।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः।।

अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः।।

विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः।
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत।।

केशवः सात्यकिश्चैव रथेनकेन जग्मतुः।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ।।

भीमसेनो यमौ चोभौ रथमेकं समास्थिताः।
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम्।।

ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः।
नेमिघोषेण महता कम्पयन्ते वसुंधराम्।।

ततो गिरः पुरुषवरस्तवेरितां
द्विजेरिताः पथिषु मनाक् स शुश्रुवे।
कृताञ्जलिं प्रणतमथापरं जनं
स केशिहा मुदितमनास्थनन्दत।।

इति स्मरन्पठति च शार्ङ्गधन्वनः
शृणोतु वा यदुकुलनन्दनस्तवम्।
स चक्रभृत्प्रतिहतसर्वाकिल्विषो
जनार्दनं प्रविशति देहसंक्षये।।

यं योगिनः प्राणवियोगकाले
यत्नेन चित्ते विनिवेशयन्ति।
स तं पुरस्ताद्धरिमीक्षमाणः
प्राणाञ्जहौ प्राप्तफलो हि भीष्मः।।

स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः।
गाङ्गेयेन पुरा गीतो महापातकनाशनः।।

इमं नरः स्तवराजं मुमुक्षुः
पठञ्शुचिः कलुषितकल्मषापहम्।
अतीत्य लोकान्मलिनः समामता
न्पदं स गच्छत्यमृतं महात्मनः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षट्‌चत्वारिंशोऽध्यायः।।