शांतिपर्व
अध्यायः ४८
वासुदेव उवाच।
शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः।
महर्षीणां कथयतां कारणं तस्य जन्म च।।
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः।
उद्भूता राजवंशेषु ये भूयो भारते हताः।।
जह्नोरजस्तु तनयो बलाकाश्चस्तु तत्सुतः।
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते।।
अग्र्यं तपः समातिष्ठत्सहस्राक्षसमो भुवि।
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत।।
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः।
समर्थं पुत्रजनने स्वयमेवैत्य भारत।।
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः।।
तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो।
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः।।
ततस्तया हि कौन्तेय भार्गवः कुरुनदनः।
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च।।
आहूय चाह तां भार्यामृचीको भार्गवस्तदा।
उपयोज्यश्चरुरयं त्वया मात्राऽप्ययं तव।।
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः।
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः।।
तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्।
तपोन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति।।
इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः।
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि।।
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः।
गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति।।
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा।
भर्त्रा दत्तं प्रसन्नेन मात्रे हृष्टा न्यवेदयत्।।
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ।
तस्याश्ररुमथाज्ञातमात्मसंस्थं चकार ह।।
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा।
धारयामास दीप्तेन वपुषा घोरदर्शनम्।।
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन भारत।
अब्रवीद्भृगुशार्दूलः स्वां भार्यां देवरूपिणीम्।।
मात्राऽसि व्यंसिता भद्रे चरुव्यत्यासहेतुना।
तस्माज्जनिष्यते पुत्रः क्रूरकर्माऽत्यमर्षणः।
`जनयिष्यति माता ते ब्रह्मभूतं तपोधनम्।।'
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम्।
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्।।
विपर्ययेण ते भद्रे नैतदेवं भविष्यति।
मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः।।
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा।
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्।।
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः।
ब्राह्मणापशदं पुत्रं प्राप्स्यसीति हि मां प्रभो।।
ऋचीक उवाच।
नैष संकल्पितः कामो मया भद्रे तथा त्वयि।
उग्रकर्मा भवेत्पुत्रश्चरुव्यत्यासहेतुना।।
सत्यवत्युवाच।
इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम्।
शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो।।
ऋचीक उवाच।
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः।
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने।।
[दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया।
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत्।।]
सत्यवत्युवाच।
काममेवं भवेत्पौत्रो मामैवं तनयः प्रभो।
शमात्मकमृजुं पुत्रं लभेयं जपतां वर।।
ऋचीक उवाच।
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि।
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति।।
वासुदेव उवाच।
ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम्।।
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः।
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्।।
ऋचीको जनयामास जमदग्निं तपोनिधिम्।
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम्।।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्।।
[तेषयित्वा महादेवं पर्वते गन्धमादने।
अस्त्राणि वरयामास परशुं चातितेजसम्।।
स तेनाकुण्ठधारेण ज्वलितानलवर्चसा।
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत्।।]
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली।
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः।।
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्।
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके।।
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्।
सबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित्।।
तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना।
सहस्त्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये।।
ग्रामान्पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्।
जज्वाल तस्य वाणेद्धचित्रभानुर्दिधक्षया।।
स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः।
ददाह कार्तवीर्यस्य शैलानपि धरामपि।।
स शून्यमाश्रमारण्यमापवस्य महात्मनः।
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः।।
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत।
दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान्।।
त्वया न वर्जितं यस्मान्ममेदं हि महद्वनम्।
दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन।।
अर्जुनस्तु महातेजा बली नित्यं शमात्मकः।
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत।
नाचिन्तयत्तदा शापं तेन दत्तं महात्मना।।
तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे।
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा।।
जमदग्नेस्तु धेन्वास्ते वत्समानिन्युरच्युत।
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः।।
तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः।
ततोऽर्जुनस्य बाहून्स चिच्छेद रुषितोऽनघ।।
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्।
प्रत्यानयत राजेन्द्र तेषामन्तः पुरात्प्रभुः।।
अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा।
गत्वाऽऽश्रममसंबुद्धा जमदग्नेर्महात्मनः।
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप।।
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः।
`प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम्।।
श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः।
धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः।।
चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः।'
ततः पितृवधामर्षाद्रामः परममन्युमान्।
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत।।
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्।
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः।।
स हैहयसहस्राणि हत्वा परममन्युमान्।
महीं सागरपर्यन्तां चकार रुधिरोक्षिताम्।।
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम्।
कृपया परयाऽऽविष्टो वनमेव जगाम ह।।
ततो वर्षसहस्रेषु समतीतेषु केषुचित्।
कोपं संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः।।
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः।
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि।।
ये ते ययातिपतने यज्ञे सन्तः समागताः।
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते।।
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि।
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः।।
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता।
परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः।।
ततो ये क्षत्रिया राजञ्शतशस्तेन वर्जिताः।
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्।।
स पुनस्ताञ्जघानाशु बालानपि नराधिप।
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा।।
जातंजातं स गर्भं तु पुनरेव जघान ह।
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः।।
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः।
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः।।
स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः।
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत्।।
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने।
न ते मद्विषये राम वस्तव्यमिह कर्हिचित्।।
`पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया।
पुनरस्याः पृथिव्या हि दत्त्वा दातुमनीश्वरः।।'
ततः शूर्पाकरं देशं सागरस्तस्य निर्ममे।
संत्रासाज्जामदग्न्यस्य सोऽपरान्तमहीतलम्।।
कश्यपस्तां महाराज प्रतिगृह्य वसुंधराम्।
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद्वनम्।।
ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः।
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ।।
अराजके जीवलोके दुर्बला बलवत्तरैः।
वध्यन्ते न हि वित्तेषु प्रभुत्वं कस्यचित्तदा।।
`ब्राह्मणाः क्षत्रिया वैश्याः शृद्राश्चोत्पथगामिनः।
परस्परं समाश्रित्य घातयन्त्यपथस्थिताः।।
स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण्डत्वं समाश्रिताः।
चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते।।
स्वधर्मस्थान्द्विजान्हत्वा तथाऽऽश्रमनिवासिनः।
वैश्याः सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः।।
तान्सर्वान्घातयन्ति स्म दुराचाराः सुनिर्भयाः।
यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनिः।।
गोबालवृद्धनारीणां नाशं कुर्वन्ति चापरे।
आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते।।
व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः।
अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः।। '
ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः।
विपर्ययेण तेनाशु प्रविवेश पसातलम्।
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः।।
तां दृष्ट्वा द्रवतीं तत्र संत्रासात्स महामनाः।
ऊरुणा धारयामास कश्यपः पृथिवीं ततः।
निमज्जन्तीं ततो राजंस्तेनोर्वीति मही स्मृता।।
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा।
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः।।
पृथिव्युवाच।
सन्ति ब्रह्मन्मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः।
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने।।
अस्ति पौरवदायादो विदूरथसुतः प्रभो।
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते।।
तथाऽनुकम्पमानेन यज्वनाथामितौजसा।
पराशरेण दायादः सौदासस्याभिरक्षितः।।
सर्वकर्माणि कुरुते शूद्रवत्तस्य स द्विजः।
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः।।
शिबिपुत्रो महातेजा गोपतिर्नाम नामतः।
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने।।
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः।
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः।।
दधिवाहनपुत्रस्तु पौत्रो दिविरथस्य च।
अङ्गः स गौतमेनासीद्गङ्गाकूलेऽभिरक्षितः।।
बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः।
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः।।
मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः।
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः।।
एते क्षत्रियदायादास्तत्रतत्र परिश्रुताः।
व्योकारहेमकारादिजातिं नित्यं समाश्रिताः।।
यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला।
एतेषां पितरश्चैव तथैव च पितामहाः।।
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा।
तेषामपचितिश्चैव मया कार्या महामुने।।
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्।
वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम्।।
वासुदेव उवाच।
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः।
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान्।।
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः।
एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण्डव।।
वैशंपायन उवाच।
एवं ब्रुवंस्तं च यदुप्रवीरो
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
रथेन तेनाशु ययौ यथाऽर्को
विशन्प्रभाभिर्भगवांस्त्रिलोकीम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टचत्वारिंशोऽध्यायः।। 48।।