शांतिपर्व
अध्यायः ४५
युधिष्ठिर उवाच।
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम।
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण।।
`इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते'।
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषर्षभ।
अपक्रान्तो यतो जीवस्तेन मे विस्मितं मनः।।
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः।
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते।।
वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते।
सर्वे चैव गुणा देवाः क्षेत्रज्ञे ते निवेशिताः।।
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः।
काष्ठकुड्यशिलाभूतो निरीहश्चासि माधव।।
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत।
तथाऽसि भगवन्देन निश्चलो योगनिश्चयात्।।
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि।
छिन्धि मे संशयं देव प्रपन्नायाभियाचते।।
त्वं हि कर्ता विकर्ता च त्वं क्षरश्चाक्षरश्च ह।
अनादिनिधनो ह्याद्यस्त्वमेकः पुरुषोत्तम।।
त्वं प्रपन्नाय भक्ताय शिरसा प्रणताय च।
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर।।
ततः स्वगोचरे न्यस्य मनोबुद्धीन्द्रियाणि च।
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः।।
वासुदेव उवाच।
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः।
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः।।
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः।
न सहेद्देवराजोऽपि तमस्मि मनसा गतः।।
येनाभिजित्य तरसा समस्तं राजमण्डलम्।
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः।।
त्रयोविंशतिरात्रं यो योधयामास भार्गवम्।
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः।।
यं गङ्गा गर्भविधिना धारयामास भारतम्।
वसिष्ठशिष्यं तं तात गतोऽस्मि मनसा नृप।।
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्।
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः।।
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव।
आधारं सर्व्रविद्यानां तमस्मि मनसा गतः।।
`एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया।
शरणं मामुपागच्छत्ततो मे तद्गतं मनः।। '
स हि भूतं भविष्यच्च भवच्च भरतर्षभ।
वेत्ति धर्मविदां श्रेष्ठस्तमस्मि मनसा गतः।।
तस्मिन्हि पुरुषव्याघ्रे शान्ते भीष्मे महात्मनि।
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी।।
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्।
अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम्।।
चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च।
राजधर्मांश्चि निखिलान्पृच्छैनं पृथिवीपते।।
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुंरधरे।
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम्।।
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्।
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह।।
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव।
तथा तन्नात्र संदेहो विद्यते मम माधव।।
महाभाग्यं च भीष्मस्य प्रभावश्च महाद्युते।
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्।।
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन।
तथा तद्रनभिध्येयं वाक्यं यादवनन्दन।।
यदि त्वनुग्रहवती बुद्धिस्ते मयि माधव।
त्वामग्रतः पुरस्कृत्य भीष्मं यास्यामहे वयम्।।
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति।
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः।।
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च।
दर्शनं त्वस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः।।
वैशंपायन उवाच।
श्रुत्वैवं धर्मराजस्य वचनं मधुसूदनः।
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति।।
सात्यकिस्त्वाशु निष्क्रम्य केशवस्य समीपतः।
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत।।
स सात्यकेराशु वचो निशम्य
रथोत्तमं काञ्चनभूषिताङ्गम्।
मसारगल्वर्कमयैर्विभङ्गै
र्विभूषितं हेमनिबद्धचक्रम्।।
दिवाकरांशुप्रभमाशुगामिनं
विचित्रनानामणिभूषितान्तरम्।
नवोदितं सूर्यमिव प्रतापिनं
विचित्रतार्क्ष्यध्वजिनं पताकिनम्।।
सुग्रीवशैब्यप्रप्नुखैर्वराश्वै
र्मनोजवैः काञ्चनभूषिताङ्गैः।
संयुक्तमावेदयदच्युताय
कृताञ्जलिर्दारुको राजसिंह।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि प्रञ्चचत्वारिंशोऽध्यायः।। 45।।