शांतिपर्व
अध्यायः ४१
वैशंपायन उवाच।
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि।
श्राद्धानि कारयामास तेषां पृथगुदारधीः।।
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्।
सर्वकामगुणोपेतमन्नं गाश्च धनानि च।
रत्नानि च विचित्राणि महार्हाणि महायशाः।।
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः।
धृष्टद्युम्नाभिमन्युभ्यां हेडिम्बस्य च रक्षसः।।
विराटप्रभृतीनां च सुहृदामुपकारिणाम्।
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ।।
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्।
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत्।।
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः।
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम्।।
सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः।
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम्।।
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्।
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्।।
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा।
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत्।।
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः।।
सर्वास्ताः कौरवो राजा संपूज्यापालायद्धृणी।।
दीनान्धकृपणानां च गृहाच्छादनभोजनैः।
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः।।
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु।
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकचत्वारिंशोऽध्यायः।। 41।।