शांतिपर्व
अध्यायः ४२
वैशंपायन उवाच।
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः।
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः।।
तव कृष्ण प्रसादेन नयेन न बलेन च।
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च।।
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया।
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम।।
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम्।
नामभिस्त्वां बहुविधैः स्तुवन्ति प्रयता द्विजाः।।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम।।
अदित्याः सप्तधा त्वं तु पुराणो गर्भतां गतः।
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि।।
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यते।
त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च।।
वराहोऽग्निर्बृहद्भानुर्वृषभस्तार्क्ष्यलक्षणः।
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः।।
वरिष्ठ उग्रसेनानीः सत्यो वाजसनिर्गुहः।
अच्युतश्च्यावनोऽरीणां संस्कृतो विकृतिर्वृषः।।
कृष्णधर्मस्त्वमेवादिर्वृषदर्भो वृषाकपिः।
सिन्धुर्विधूर्मिस्त्रिककुप् त्रिधामा त्रिवृदच्युतः।।
सम्राड् विराट् स्वराट् चैव स्वराड्भूतमयो भवः।
विभूर्भूरतिभूः कृष्णः कृष्णवर्त्मा त्वमेव च।।
स्विष्टकृद्भिषजावर्तः कपिलस्त्वं च वामनः।
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे।।
शिखण्डी नहुषो बभ्रुर्दिविस्पृक् त्वं पुनर्वसुः।
सुबभ्रू रुक्मयज्ञश्च सुषेणो दुन्दुभिस्तथा।।
गभस्तिनेमिः श्रीपझः पुष्करः शुष्मधारणः।
ऋभुर्विभुः सर्वसूक्ष्मस्त्व धरित्री च पठ्यसे।।
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धामवित्।
हिरण्यगर्भः पुरुषः स्वधा स्वाहा च केशवः।।
योनिस्त्वमस्य प्रलयश्च कृष्ण
त्वमेवेदं सृजसि विश्वमग्रे।
विश्वं चेदं त्वद्वशे विश्वयोने
नमोस्तु ते शार्ङ्गचक्रासिपाणे।।
वैशंपायन उवाच।
एवं स्तुतो धर्मराजेन कृष्णः
सभामध्ये प्रीतिमान्पुष्कराक्षः।
तमभ्यनन्दद्भारतं पुष्कलाभि
र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः।।
`एतन्नामशतं विष्णोर्धर्मराजेन कीर्तितम्।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्विचत्वारिंशोऽध्यायः।। 42।।