शांतिपर्व

अध्यायः ४०

Santi Parva (Sanskrit) · Adhyaya 40
अक्षर का आकार

वैशंपायन उवाच।

प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम्।
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत।।

धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः।
तथ्यान्वाप्यथवाऽतथ्यान्गुणानाहुः समागताः।।

अनुग्राह्या वयं नूनं भवतामिति मे मतिः।
यदेवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः।।

धृतराष्ट्रो महाराजः पिता नो दैवतं परम्।
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः।।

एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्।
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा।।

यदि चाहमनुग्राह्यो भवतां सुहृदां तथा।
धृतरा यथापूर्वं वृत्तिं वर्तितुमर्हथ।।

एष नाथो हि जगतो भवतां च मया सह।
अस्य प्रसादे पृथिवी पाण्डवाः सर्व एव च।।

एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम।
अनुज्ञाप्याथ तान्राजा यथेष्टं गम्यतामिति।।

पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः।
यौवराज्येन कौन्तेयं भीमसेनमयोजयत्।।

मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने।
विदुरं बुद्धिसंपन्नं प्रीतिमान्स समादिशत्।।

कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने।
संजयं योजयामास वृद्धं सर्वगुणैर्युतम्।।

बलस्य परिमाणे च भक्तवेतनयोस्तथा।
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे।।

परचक्रोपरोधे च दृप्तानां चावमर्दने।
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह।।

द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह।
धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत्।।

सहदेवं समीपस्थं नित्यमेव समादिशत्।
तने गोप्यो हि नृपतिः सर्वावस्थो विशांपते।।

यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु।
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः।।

विदुरं संजयं चैव युयुत्सुं च महामतिम्।
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः।।

उत्थायोत्थाय तत्कार्यमस्य राज्ञः पितुर्मम।
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम।।

पौरजानपदानां च यानि कार्याणि नित्यशः।
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चत्वारिंशोऽध्यायः।। 40।।