शांतिपर्व

अध्यायः ३९

Santi Parva (Sanskrit) · Adhyaya 39
अक्षर का आकार

वैशंपायन उवाच।

ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः।
काञ्चने प्राड्भुखो हृष्टो न्यषीदत्परमासने।।

तमेवाभिमुखौ पीठे प्रदीप्ते काञ्चने शुभे।
सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ।।

मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ।
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः।।

दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते।
पृथाऽपि सहदेवेन सहास्ते नकुलेन च।।

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः।
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक्।।

युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी।
धृतराष्ट्रो यतो राजा ततः सर्वे समाविशन्।।

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्।
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन्।।

ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्।
ददृशुर्धर्मराजानमादाय बहुमङ्गलम्।।

पृथिवीं च सुवर्णं च रत्नानि विविधानि च।
आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम्।।

काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः।
पूर्णकुम्भाः सुमनसो लाजा बर्हीषि गोरसाः।।

शमीपिप्पलपालाशसमिधो मधुसर्पिषी।
स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः।।

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः।
प्रागुदक्प्रवणे वेदीं लक्षणेनोपलिख्य च।।

व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने।
दृढपादप्रतिष्ठाने हुताशनसमत्विपि।।

उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम्।
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम्।।

तत उत्थाय दाशार्हः शङ्खमादाय पूरितम्।
अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्।
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा।।

अनुज्ञातोऽथ कृष्णेन भ्रातृभिः सह पाण्डवः।
पाञ्चजन्याभिषिक्तश्च राजाऽमृतमुखोऽभवत्।।

ततोऽनुवादयामासुः पणवानकदुन्दुभीन्।।

धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः।
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः।।

ततो निष्कसहस्रेण ब्राह्मणान्स्वस्त्यवाचयन्।
वेदाध्ययनसंपन्नान्धृतिशीलसमन्वितान्।।

ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च।
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम्।।

युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव।
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते।।

दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः।
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ।।

मुक्ता वीरक्षयात्तस्मात्संग्रामाद्विजितद्विषः।
क्षिप्रमुत्तरकार्याणि कुरु सर्वाणि भारत।।

ततः प्रीत्याऽर्चितः सद्भिर्धर्मराजो युधिष्ठिरः।
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39।।