शांतिपर्व
अध्यायः ३७४
ब्राह्मण उवाच।
आश्चर्यं नात्र संदेहः सुप्रीतोस्मि भुजङ्गम।
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः।।
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम।
स्मरणीयोस्मि भवता संप्रेषणनियोजनैः।।
नाग उवाच।
अनुक्त्वा हृद्गतं कार्यं क्वेदानीं प्रस्थितो भवान्।
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः।।
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ।
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि सुव्रत।।
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह।
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा।।
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः।
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ।।
ब्राह्मण उवाच।
एवमेतन्महाप्राज्ञ विदितात्मन्भुजङ्गम।
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम्।।
स एव त्वं स एवाहं योऽहं स तु भवानपि।
अहं भवांश्च भूतानि सर्वे यत्र गताः सदा।।
आसीत्तु मे भोगिपते संशयः पुण्यरसंचये।
सोहमुञ्छव्रतं साधो चरिष्याम्यर्थसाधनम्।।
a एष मे निश्चयः साधो कृतं कारणमुत्तमम्।
b आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःसप्तत्यधिकत्रिशततमोऽध्यायः।। 374।।