शांतिपर्व
अध्यायः ३७३
Santi Parva (Sanskrit) · Adhyaya 373
सूर्य उवाच।
नैष देवोऽनिलसखो नासुरो न च यन्नगः।
उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः।।
एष मूलफलाहारः शीर्णपर्णाशनस्तथा।
अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः।।
भवश्चानेन विप्रेण संहिताभिरभिष्टुतः।
स्वर्गद्वारे कृतोद्योगो येनासौ त्रिविदं गतः।।
असंगतिरनाकाङ्क्षी नित्यमुञ्छशिलाशनः।
सर्वभूतहिते युक्त एष विप्रो भुजंगमाः।।
न हि देवा न गन्धर्वा नासुरा न च पन्नगाः।
प्रभवन्तीह भूतानां प्राप्तानामुत्तमां गतिम्।।
एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज।
संसिद्धो मानुषः कामं योसौ सिद्धगतिं गतः।
सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिसप्तत्यधिकत्रिशततमोऽध्यायः।। 373।।