शांतिपर्व
अध्यायः ३७५
भीष्म उवाच।
स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः।
दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः।।
स तेन कृतसत्कारो धर्ममेवाधितस्थिवान्।
तथैव च कथामेतां राजन्कथितवांस्तदा।।
भार्गवेणापि राजेन्द्र जनकस्य निवेशने।
कथैषा कथिता पुण्या नारदाय महात्मने।।
नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने।
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा।।
देवराजेन च पुरा कथितैषा कथा शुभा।
समस्तेभ्यः प्रशस्तेभ्यो विप्रेभ्यो वसुधाधिप।।
यदा च मम रामेण युद्धमासीत्सुदारुणम्।
वसुभिश्च तदा राजन्कथेयं कथिता मम।।
पृच्छमानाय तत्त्वेन मया चैवोत्तमा तव।
कथेयं कथिता पुण्या धर्म्या धर्मभृतांवर।।
तदेव परमो धर्मो यन्मां पृच्छसि भारत।
आसीद्धीरो ह्यनाकाङ्क्षी धर्मार्थकरणे नृप।।
स च किल कृतनिश्चयो द्विजो
भुजगपतिप्रतिदशितात्मकृत्यः।
यमनियमसहो वनान्तरं
परिगणितोञ्छशिलाशनः प्रविष्टः।।
।। इति श्रीमन्महाभारते शतसाहस्रिकायां
संहितायां वैयासिक्यां शान्तिपर्वणि
मोक्षधर्मपर्वणि उञ्छवृत्त्युपाख्याने
पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः।। 375।।