शांतिपर्व

अध्यायः ३६४

Santi Parva (Sanskrit) · Adhyaya 364
अक्षर का आकार

ब्राह्मण उवाच।

समुत्पन्ने विधानेऽस्मिन्वाङ्भाधुर्येण तेऽनघ।
मित्रत्वमभिसंपन्नः किंचिद्वक्ष्यामि तच्छृणु।।

गृहस्थधर्मं विप्रेन्द्र श्रुत्वा धर्मगतं त्वहम्।
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज।।

अहमात्मानमास्थाय एक एवात्मनि स्थितम्।
द्रष्टुमिच्छन्न पश्यामि बद्धः साधारणैर्गुणैः।।

यावदेतदतीतं मे वयः पुत्रफलाश्रितम्।
तावदिच्छामि पाथेयमादातुं पारलौकिकम्।।

अस्मिन्हि लोकसंभारे परं पारमभीप्सतः।
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः।।

संयुज्यमानानि निशाम्य लोके
निर्यात्यमानानि च सात्विकानि।
दृष्ट्वा तु धर्मध्वजकेतुमालां
प्रकीर्यमाणामुपरि प्रजानाम्।।

न मे मनो रज्यति भोगरागै
र्दृष्ट्वा गतिं प्रार्थयतः परत्र।
तेनातिथे बुद्धिबलाश्रयेण
धर्मेण धर्मे विनियुङ्क्ष्व मां त्वम्।।

सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः।
प्रोवाच वचनं श्लक्षणं प्राज्ञो मधुरया गिरा।।

अहमप्यत्र मुह्यामि ममाप्येष मनोरथः।
न च संनिश्चयं चामि बहुद्वारे त्रिविष्टये।।

केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः।
वानप्रस्थाश्रयाः केचिद्गार्हस्थ्यं केचिदाश्रिताः।।

राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः।
गुरुधर्माश्रयाः केचित्केचिद्वाक्संयमाश्रयाः।।

मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः।
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे।।

आहवेऽभिमुखः केचिन्निहतास्त्रिदिवं गताः।
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गं समाश्रिताः।।

केचिदध्ययने युक्ता वेदव्रतपराः शुभाः।
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः।।

आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः।
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः।।

एवं बहुविधैर्लोकैर्धर्मद्वारैरनावृतैः।
ममापि मतिराविद्धा मेघलेखेव वायुना।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःषष्ट्यधिकत्रिशततमोऽध्यायः।। 364।।