शांतिपर्व
अध्यायः ३६५
अतिथिरुवाच।
उपदेशं तु ते विप्र करिष्येऽहं यथाक्रमम्।
गुरुणा मे यथाख्यातमर्थतत्त्वं तु मे शृणु।।
यत्र पूर्वाभिसर्गे वै धर्मचक्रं प्रवर्तितम्।
नैमिषे गोमतीतीरे तत्र नागह्रदो महान्।।
समग्रैस्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ।
यत्रेन्द्रातिक्रमं चक्रे माधाता राजसत्तमः।।
कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्।
पद्मनाभो महानागः पद्म इत्येव विश्रुतः।।
स वाचा कर्मणा चैव मनसा च द्विजर्षभः।
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः।।
साम्ना भेदेन दानेन दणडेनेति चतुर्विधम्।
पिपमस्थं समस्थं च चक्षुर्ध्यानेन रक्षति।।
तमतिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षित्तम्।
स ते परमकं धर्मं न मिथ्या दर्शयिष्यरति।।
स हि सर्वातिथिर्नाणो बुद्धिशास्त्रविशारदः।
गुणैरनुपमैर्युक्तः समस्तैराभिकामिकैः।।
प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः।
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च।।
यज्वा दानपतिः क्षान्तो वृत्ते च परमे स्थितः।
सत्यवागनसूयुश्च शीलवान्नियतेन्द्रियः।।
शेषान्नभोक्ता वचनानुकूलो
हितार्जवोत्कृष्टकृताकृतज्ञः।
अवैरकृद्भूतहिते नियुक्तो
गङ्गाह्रदाम्भोभिजनोपपन्नः।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चषष्ट्यधिकत्रिशततमोऽध्यायः।। 365।।