शांतिपर्व
अध्यायः ३६३
भीष्म उवाच।
आसीत्किल नरश्रेष्ठ महापद्मे पुरोत्तमे।
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः।।
सौम्यः सोमान्वये जातो जितात्मा गोत्रतो भृगुः।
धर्मनित्यो जितक्रोधो नित्यतप्तो जितेन्द्रियः।।
तपःस्वाध्यायनिरतः सत्यः सज्जनसंमतः।
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः।।
ज्ञाति संबन्धिविपुले पुत्रपौत्रप्रतिष्ठिते।
कुले महति विख्याते विशिष्टां वृत्तिमास्थितः।।
स पुत्रान्बहुलाँल्लब्ध्वा विपुले कर्मणि स्थितः।
कुलधर्माश्रितो राजन्धरर्मचर्यास्थितोऽभवत्।।
ततः स धर्मं वेदोक्तं तथा शास्त्राक्तमेव च।
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा।।
किंनु मे स्याच्छुभं कृत्वा किं कृतं किं परायणम्।
इत्येवं चिन्तयन्नित्यं न च याति विनिश्चयम्।।
तस्यैवं चिन्त्यमानस्य धर्मं परममास्थितः।
कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः।।
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना।
विश्रान्तं सुसमासीनमिदं वचनमब्रवीत्।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिषष्ट्यधिकत्रिशततमोऽध्यायः।। 363।।