शांतिपर्व

अध्यायः ३६२

Santi Parva (Sanskrit) · Adhyaya 362
अक्षर का आकार

युधिष्ठिर उवाच।

धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्।।

भीष्म उवाच।

सर्वत्र विहितो धर्मः सत्यः सत्यफलोदयः।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया।।

यस्मिन्यस्मिंश्च विषये यो यो याति विनिश्चयम्।
स तमेवाभिजानाति नान्यं भरतसत्तम।।

इमां च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्।
पुरा शक्रस्य कथितां नारदेन महर्षिणा।।

महर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः।
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा।।

स कदाचिन्महेष्वास देवराजालयं गतः।
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत्।।

तं कृतक्षणमासीनं पर्यपृच्छच्छत्तीपतिः।
महर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयाऽनघ।।

दृष्टमेव हि विप्रर्षे त्रैलोक्यं सचराचरम्।
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत्।।

न ह्यस्त्यविदितं लोके देवर्षे तव किंचन।
श्रुतं वाऽप्यनुभूतं वा दृष्टं वा कथयस्व मे।।

तस्मै राजन्सुरेन्द्राय नारदो वदतांवरः।
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम्।।

यथा येन च कल्पेन स तस्मै द्विजसत्तमः।
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
द्विषष्ट्यधिकत्रिशततमोऽध्यायः।। 362।।