शांतिपर्व

अध्यायः ३६१

Santi Parva (Sanskrit) · Adhyaya 361
अक्षर का आकार

ब्रह्मोवाच।

शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते।।

न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम।
सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः।।

अशरीरः शरीरेषु सर्वेषु निवसत्यसौ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः।।

ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित्।।

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्।।

क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम्।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते।।

नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित्।
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम्।।

चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम्।
यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम्।।

तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः।
महापुरुषशब्दं स बिभर्त्येकः सनातनः।।

स्तं निर्गुणं पुरुषं चाविशन्ति।।

हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम्।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः।।

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्।
विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम्।।

एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः।
एकात्मानं तथाऽऽत्मानमपरेध्यात्मचिन्तकाः।।

तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः।।

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा।
कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स युज्यते।।

ससप्तदशकेनापि राशिना युज्यते च सः।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्।।

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम
वेद्यं परं बोधनीयं च वेदैः।
मन्ता मन्तव्यं प्राशिता प्राशनीयं
घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्।।

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं
ज्ञाता ज्ञेयं सगुणं निर्गुणं च।
यद्वै प्रोक्तं तात सम्यक्प्रधानं
नित्यं चैतच्छाश्वतं चाव्ययं च।।

यद्वै सूते धातुराद्यं विधानं
तद्वै विप्राः प्रवदन्तेऽनिरुद्धम्।
यद्वै लोके वैदिकं कर्म साधु
आशीर्युक्तं तद्धि तस्योपभोग्यम्।।

देवाः सर्वे मनुयः साधु दान्ता
स्तं प्राग्वंशे यज्ञभागं भजन्ते।
अहं ब्रह्मा आद्य ईशः प्रजानां
तस्माज्जातस्त्वं च मत्तः प्रसूतः।।

मत्तो जगज्जङ्गमं स्थावरं च
सर्वे वेदाः सरहस्या हि पुत्र।।

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति।
एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत्।।

एतत्ते कथितं पुत्र यथावदनुपृच्छतः।
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये समाप्तौ
एकषष्ट्यधिकत्रिशततमोऽध्यायः।। 361।।