शांतिपर्व
अध्यायः ३६०
जनमेजय उवाच।
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु।
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते।।
वैशंपायन उवाच।
बहवः पुरुषा लोके साङ्ग्ययोगविचारणे।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।।
बहनां पुरुषाणां च यथैका योनिरुच्यते।
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम्।।
नमस्कृत्वा च गुरवे व्यासाय विदितात्मने।
तपोयुक्ताय दान्ताय वन्द्याय परमपये।।
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव।
ऋतं सत्यं च विख्यातमृपिसिंहेन चिन्तितम्।।
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः।
अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत।।
समासतेस्तु यद्व्यासः पुरुषैकत्वमुक्तवान्।
तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते।।
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः।
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप।।
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन्।
वैराजसदनान्नित्यं वैजयन्तं निपेवते।।
अथ तत्राऽऽसतस्तस्य चतुर्वक्रस्य धीमतः।
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया।
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः।।
ततः खान्निपपाताशु धरणीधरमूर्धनि।
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः।।
तं पादयोनिंपतितं दृष्ट्वा सव्येन पाणिना।
अत्थापयामास तदा प्रभुरेकः प्रजापतिः।
उवाच चैनं भगवांश्चिरस्यागतमात्मजम्।।
पितामह उवाच।
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोसि मेऽन्तिकम्।
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा।
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः।।
रुद्र उवाच।
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम।
कृशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ।।
चिरदृष्टोमि भगवन्वैराजसदने मया।
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्।।
कौतूहलं चापि हि मे एकान्तगमनेन ते।
नैतत्कारणमल्पं हि भविष्यति पितामह।।
किंनु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्।
सुरासुरैरध्युपितमृषिभिश्चामितप्रभैः।।
गन्धर्वैरेप्सरोभिश्च सततं संनिषेवितम्।
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि।।
ब्रह्मोवाच।
वैजयन्तो गिरिवरः सततं सेव्यते मया।
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्।।
रुद्र उवाच।
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुव।
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट्।।
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः।
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे।।
ब्रह्मोवाच।
बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः।
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि।।
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते।
बहूनां पुरुषाणां स यथैका योनिरुच्यते।।
तथा तं पुरुषं विश्वं परमं सुमहत्तमम्।
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
षष्ट्यधिकत्रिशततमोऽध्यायः।। 360।।