शांतिपर्व

अध्यायः ३५९

Santi Parva (Sanskrit) · Adhyaya 359
अक्षर का आकार

जनमेजय उवाच।

साख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च।
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह।।

किमेतान्येकनिष्ठानिं पृथङ्निष्ठानि वा मुने।
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्।।

`कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्।
वदस्व त्वं मया पृष्टः प्रवृत्तिं च यथाक्रमम्।।'

वैशंपायन उवाच।

जज्ञे बहुज्ञं परमत्युदारं
यं द्वीपमध्ये सुतमात्मवन्तम्।
पराशरात्सत्यवती महर्षि
तस्मै नमोऽज्ञानतमोनुदाय।।

पितामहाद्यं प्रवदन्ति षष्ठं
महर्षिमार्षेयविभूतियुक्तम्।
नारायणस्यांशजमेकपुत्रं
द्वैपायनं वेदमहानिधानम्।।

तमादिकालेषु महाविभूति
र्नारायणो ब्रह्म महानिधानम्।
ससर्ज पुत्रार्थमुदारतेजा
व्यासं महात्मानमजं पुराणम्।।

जनमेजाय उवाच।

त्वयैव कथितः पूर्वं संभवो द्विजसत्तम।
वसिष्ठस्य सुतः शक्तिः शक्तिपुत्रः पराशरः।।

पराशरस्य दायादः कृष्णद्वैपायनो मुनिः।
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे।।

किमतः पूर्वकं जन्म व्यासस्यामिततेजसः।
कथयस्वोत्तममते जन्म नारायणोद्भवम्।।

वैशंपायन उवाच।

वेदार्थवेत्तुव्यासस्य धर्मिष्ठस्य तपोनिधेः।
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः।।

कृत्वा भारतमाख्यानं तपः श्रान्तस्य धीमतः।
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा।।

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः।
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा।।

एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः।
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा।।

वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः।
तमेकमनसं दान्तं युक्ता वयमुपास्महे।।

कथान्तरेऽथकस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः।
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा।।

स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित्।
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे।।

शृणुध्वमाख्यानवरमिदमार्षेयमुत्तमम्।
आदिकालोद्भवं विप्रास्तपसाऽधिगतं मया।।

प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे।
नारायणो महायोगी शभाशुभविवर्जितः।।

ससृजे नाभितः पूर्वं ब्रह्माणममितप्रभः।
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्।।

मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः।
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः।।

स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः।
प्रणम्य वरदं देवमुवाच हरिमीश्वरम्।।

का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोस्तु ते।
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम्।।

स एवमुक्तो भगवान्भूत्वाऽथान्तर्हितस्ततः।
चिन्तयामास देवेशो बुद्धिं बुद्धिमतांवरः।
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम्।।

योगेन चैनां निर्योगः स्वयं नियुयुजे तदा।
स तामैश्वर्ययोगस्थां बुद्धिं गतिमतीं सतीम्।।

उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः।
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये।
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा।।

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः।
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः।।

बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत।।

प्राप चैनं मुहूर्तेन स्वं स्थानं देवसंज्ञितम्।
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत्।।

अथास्य बुद्धिरभवत्पुनरन्या तदा किल।
सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना।।

दैत्यदानवगन्धर्वरक्षोगणसमाकुला।
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी।।

बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः।
भविष्यन्ति तपोयुक्ता वरानप्राप्स्यन्ति चोत्तमान्।।

अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः।
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः।।

तत्र न्याय्यमिदं कर्तुं भारावतरणं मया।
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्।।

निग्रहेण च पापानां साधूनां प्रग्रहेण च।
इदं तपस्विनी सत्या धारयिष्यति मेदिनी।।

मया ह्येषा हि ध्रियते पातालस्थेन भोगिना।
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः।।

एवं स चिन्तयित्वा तु भगवान्मघधुसूदनः।
रुपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः।।

वाराहं नारसिहं च वामनं मानुषं तथा।
एभिर्मया निहन्तव्याः दुर्विनीताः सुरारयः।।

अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्।
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्।।

अपान्तरतमा नाम सुतो वाक्संभवः प्रभोः।
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः।।

तमुवाच नतं मूर्ध्ना देवानामादिवरव्ययः।
वेदाख्याने श्रुतिः कार्या त्वया मतिमतांवर।।

तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने।
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेन्तरे।।

ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा।
तपसा च सुतप्तेन यमेन नियमेन च।।

मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः।
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः।।

पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः।
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि।।

तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति।
परस्परविनाशार्थं त्वामृते द्विजसत्तम।।

तत्राप्यनेकधा वेदान्भेत्स्यसे तपसाऽन्वितः।
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि।।

धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा।
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे।।

वीतरागश्च पुत्रस्ते परमात्मा भविष्यति।
महेश्वरप्रसादेन नैतद्वचनमन्यथा।।

यं मानसं वै प्रवदन्ति विप्राः
पितामहस्योत्तमबुद्धियुक्तम्।
वसिष्ठमग्र्यं च तपोनिधानं
यस्यातिसूर्यं व्यरिरिच्यते भाः।।

तस्यान्वपे चापि ततो महर्षिः
पराशरो नाम महाप्रभावः।
पिता स ते वेदनिधिर्वरिष्ठो
महातपा वै तपसो निवासः।।

कानीनगर्भः पितृकन्यकायां
तस्मादृषेस्त्वं भविता च पुत्रः।।

भूतभव्यभविष्याणां ज्ञानानां वेत्स्यसे गतिम्।
ये ह्यतिक्रान्तकाः पूर्वं सहस्रसुगपर्ययाः।।

तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसाऽन्वितः।
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्।।

अनादिनिधनं लोके चक्रहस्तं च मां मुने।
अनुध्यानान्मम मुने नैतद्वचनमन्यथा।
भविष्यति महासत्व ख्यातिश्चाप्यतुला तव।।

* शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान्।
तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः।
त्वमेव भविता वत्स मत्प्रसादान्न संशयः।।

[यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम्।
अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम्।।]

एवं सारस्वतमृषिमपांतरतमं तथा।
युक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्।।

सोहं तस्य प्रसादेन देवस्य हरिमेधसः।
अपांतरतमो नाम्ना ततो जातोऽऽज्ञया हरेः।।

पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः।।

तदेतत्कथितं जन्म मया पूर्वकमात्ममः।
नारायणप्रसादेन तदा नारायणांशजम्।।

मया हि सुमहत्तप्तं तपः परमदारुणम्।
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना।।

एतद्वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः।
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया।।

वैशंपायन उवाच।

एष ते कथितः पूर्वः संभवोऽस्मद्गुरोर्नृप।
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु।।

साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा।
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै।।

साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः।।

अपांतपतमाश्चैव वेदाचार्यः स उच्यते।
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन।।

उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः।
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः।।

पाञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम्।
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते।।

यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः।
न चैनमेवं जानन्ति तमोभूता विशांपते।।

तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः।
निष्ठां नारायणमृषिं नान्योस्तीति च वादिनः।।

निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः।
ससंशयान्हेतुबलान्नाध्यावसति माधवः।।

पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप।
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै।।

साङ्ख्यं च योगं च सनातने द्वे
वेदाश्च सर्वे निखिलेन राजन्।
सर्वैः समस्तैर्ऋषिभिर्निरुक्तो
नारायणो विश्वमिदं पुराणम्।।

शुभाशुभं कर्म समीरितं य
त्प्रवर्तते सर्वलोकेषु किंचित्।
तस्मादृपेस्तद्भवतीति विद्या
द्दिव्यन्तरिक्षे भुवि चाप्सु चेति।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
एकोनषष्ट्यधिकत्रिशततमोऽध्यायः।। 359।।