शांतिपर्व

अध्यायः ३६

Santi Parva (Sanskrit) · Adhyaya 36
अक्षर का आकार

युधिष्ठिर उवाच।

श्रोतुमिच्छामि भगवन्विस्तरेण महामुने।
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्।।

आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम।
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम्।।

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता।
कौतूहलानुप्रवणा हर्षं जनयतीव मे।।

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते।
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः।।

वैशंपायन उवाच।

तमुवाच महाराज व्यासो वेदविदां वरः।
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम्।।

श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप।
प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्।।

स ते धर्मरहस्येषु संशयान्मनसि स्थितान्।
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्।।

जनयामास यं देवी दिव्या त्रिपथगा नदी।
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान्।।

बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः।
तोषयित्वोपचारेण राजनीतिमधीतवान्।।

उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः।
स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः।।

भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्।
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः।।

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्।
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा।।

मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्।
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुपर्षभः।।

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि।
तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः।।

यस्य ब्रह्मर्षयः पुण्या नित्यमासन्स भसादः।
यस्य नाविदितं किंचिज्ज्ञानं ज्ञेयेषु दृश्यते।।

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्।
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित्।।

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः।
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्।।

युधिष्ठिर उवाच।

वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम्।
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः।।

घातयित्वा तमेवाजौ छलेनाजिह्नयोधिनम्।
उपसंप्रष्टुमर्हामि तमहं केन हेतुना।।

वैशंपायन उवाच।

ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया।
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः।।

वासुदेव उवाच।

नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि।
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम।।

ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः।
पर्जन्यमिव घर्मान्ते नाथमाना उपासते।।

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्।
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्।।

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्।
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः।।

सुहृदामस्मदादीनां द्रौपद्यांश्च परंतप।
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु।।

वैशंपायन उवाच।

एवमुक्तः स कृष्णेन राजा राजीवलोचनः।
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः।।

सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम्।
द्वैपायनेन च तथा देवस्थानेन जिष्णुना।।

एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः।
व्यजहान्मानसं दुःखं संतापं च महायशाः।।

श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः।
व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः।।

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः।
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह।।

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः।
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः।।

ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम्।
युक्तं षोडशभिस्त्वश्चैः पाण्‍डुरैः शुभलक्षणैः।।

मन्त्रैरभ्यर्चितं पण्यैः स्तूयमानश्च बन्दिभिः।
आरुरोह यथा देवः सोमोऽम्रतमयं यथम्।।

जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः।
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्।।

ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि।
शुशुभे तारकाराजः सिताभ्र इव चाम्बरे।।

चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा।
चन्द्ररश्मिप्रये शुभ्रे माद्रीपुत्रावलंकृते।।

ते पञ्च रथमास्थाय भ्रातरः समलंकृताः।
भूतानीव समस्तानि राजन्ददृशिरे तदा।।

आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः।
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम्।।

रथं हेममयं शुभ्रं शैव्यसुग्रीवयाजितम्।
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून्।।

नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत।
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ।।

कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी।
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः।।

ततो रथाश्च बहुला नागाश्वसमलंकृताः।
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन्।।

ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः।
स्तूयमानो ययौ राजा नगरं नागसाह्वयम्।।

तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि।
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम्।।

अभियाने तु पार्थस्य नरैर्नगरवासिभिः।
नगरं राजमार्गाश्च यथावत्समलंकृताः।।

पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी।
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः।।

अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः।
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्।।

कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः।
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह।।

तथा स्वलंकृतं द्वारं नगरं पाण्डुनन्दनः।
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षट्‌त्रिंशोऽध्यायः।। 36।।