शांतिपर्व

अध्यायः ३५

Santi Parva (Sanskrit) · Adhyaya 35
अक्षर का आकार

युधिष्ठिर उवाच।

किं भक्ष्यं चाप्यभक्ष्यं च किंच देयं प्रशस्यते।
किंच पात्रमपात्रं वा तन्मे ब्रूहि पितामह।।

व्यास उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः।।

ऋषयस्तु व्रतपराः समागम्य पुरा विभुम्।
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्।।

कथमन्त्रं कथं दानं गम्यागम्याः कथं स्त्रियः।
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते।।

तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत्।
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः।।

अनादेशे जपो होम उपवासस्तथैव च।
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः।।

अनादिष्टं तथैतानि पुण्यानि धरणीभृतः।
सुवर्णप्राशनमपि रत्नादिस्नानमेव च।।

देवस्थानाभिगमनमाज्यप्राशनमेव च।
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः।।

न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः।
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत्।।

अदत्तस्यानुपादानं दानमध्ययनं तपः।
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम्।।

स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः।
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकः स्मृतः।।

द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम्।
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः।।

अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्।
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च।
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा।।

दैवं च दैवसंयुक्तं प्राणश्च प्रलयस्तथा।
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्।।

ऊर्ध्वं भवति संदेहादिहादिष्टार्थमेव च।
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते।।

क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः।
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये।
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति।।

उपवासेनैकरात्रं दण्डोत्सर्गे नराधिपः।
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः।।

क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः।
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत्।।

जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान्।
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते।।

दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः।
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये।।

अनुष्णा मृत्तिका चैव तथा क्षुद्रपिपीलिकाः।
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च।।

अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः।
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये।।

भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः।
काको मद्रुश्च गृध्रश्च श्येनोलूकस्तथैव च।।

क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये।
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः।।

एडकाश्च मृगोष्ट्राणां सूकराणां गवामपि।
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः।।

प्रेतान्नं सूतकान्नं च यच्च किंचिदनिर्दशम्।
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम्।।

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः।।

विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम्।
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः।।

दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च।
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च।।

चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा।
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा।।

परिवित्तीनामपुंसां च बन्दिद्यूतविदां तथा।
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत्।।

सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्।
पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा।
सक्तु धाना करम्भाश्च नोपभोग्याश्चिरस्थिताः।।

पायसं कृसरं मांसमपूपाश्च वृथा कृताः।
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः।।

देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः।
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति।।

यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत्।
एवंवृत्तः प्रियैर्दारैः संबसन्धर्ममाप्नुयात्।।

न दद्याद्यशसे दानं न भयान्नोपकारिणे।
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः।।

न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके।
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने।।

न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः।
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते।।

असम्यच्कैव यद्दत्तमसम्यक् च प्रतिग्रहः।
उभयं स्यादनर्थाय दातुरादातुरेव च।।

यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन्।
मञ्जेत मञ्जतस्तद्वद्दाता यश्च प्रतिग्रही।।

काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते।
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही।।

कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्।।

निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः।
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च।।

न वै देयमनुक्रोशाद्दीनायापगुणाय तु।
आप्ताचरित इत्येव धर्म इत्येव वा पुनः।।

निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते।
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा।।

यथा दारुमयो हस्ती यथा चर्ममयो मृगः।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः।।

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा।।

ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः।
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ।।

देवतानां पितॄणां च हव्यकव्यविनाशकः।
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति।।

एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर।
समासेन महद्ध्येतच्छ्रोतव्यं नरतर्षभ।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चत्रिंशोऽध्यायः।। 35।।