शांतिपर्व

अध्यायः ३७

Santi Parva (Sanskrit) · Adhyaya 37
अक्षर का आकार

वैशंपायन उवाच।

प्रवेशने तु पार्थानां जनानां पुरवासिनाम्।
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः।।

स राजमार्गः शुशुभे समलंकृतचत्वरः।
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः।।

गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च।
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि भारत।।

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्।
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ।।

धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्।
उपतिष्ठसि कल्याणि महर्षिमिव गौतमी।।

तव कर्माण्यमोघानि व्रतचर्या च भामिनि।
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः।।

प्रशंसावचनैस्तासां मिथः शब्दैश्च भारत।
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम्।।

तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः।
अलंकृतं शोभमानमुपापाद्राजवेश्म ह।।

ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा।
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः।।

दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन।
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च।।

भव नस्त्वं महाराज राजेह शरदां शतम्।
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा।।

एवं राजकुलद्वारि मङ्गलैरभिपूजितः।
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः।।

प्रविश्य भवनं राजा देवराजगृहोपमम्।
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत्।।

प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च।
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः।।

निश्चक्राम ततः श्रीमान्पुनरेव महायशाः।
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान्।।

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः।
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा।।

तांस्तु वै पूजयामास कौन्तेयो विधिवद्द्विजान्।
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा।
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः।।

धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च।
`प्रविवेश सभां राजा सुधर्मां वासवो यथा।।'

ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत।
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः।।

हंसवन्नेदुषां राजन्द्विजानां तत्र भारती।
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा।।

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः।
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप।।

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः।
राजानं ब्राह्मणच्छझा चार्वाको राक्षसोऽब्रवीत्।।

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः।
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः।।

वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः।
परस्सहस्रै राजेन्द्र तपोनियमसंस्थितैः।।

सुदुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्।
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम्।।

चार्वाक उवाच।

इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि।
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै।।

किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्।
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्।।

इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः।
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः।।

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः।
व्रीडिताः परमोद्विग्रास्तूष्णीमासन्विशांपते।।

युधिष्ठिर उवाच।

प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः।
प्रत्यासन्नव्यसनिनं न मां धिक्कर्तुमर्हथ।।

वैशंपायन उवाच।

ततो राजन्ब्राह्माणास्ते सर्व एव विशांपते।
ऊचुर्नैष द्विजोऽस्माकमन्यस्तु तव पार्थिव।।

जज्ञुश्चैनं महात्मानस्ततस्तं ज्ञानचक्षुषा।
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः।।

ब्राह्मणा ऊचुः।

एष दुर्योधनसखा विश्रुतो ब्रह्मराक्षसः।
परिव्राजकरूपेण हितं तस्य चिकीर्षति।।

न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम्।
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह।।

वैशंपायन उवाच।

ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्च्छिताः।
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्।।

स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्।
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव।।

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्।
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तत्रिंशोऽध्यायः।। 37।।